Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 91
________________ भर्तृहरिकृत - शतकत्रयम् शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्मबोधोऽपि बाढ़ संसारेऽस्मिन् भवति विरलो भोजनं सद्गतीनाम् । येनैतस्मिन् निरयनगरद्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ३९ ॥ अस्मिन् संसारे विरलो जनः सद्गतीनां भाजनं भवति । किं० जनः ? | शास्त्रज्ञोऽपि प्रगुणितनयोऽपि प्रगुणितः प्रगुणीकृतो नयो येन सः । वाढमात्मबोधोऽपि । आत्मानं बोधयतीत्यात्मबोधः । एवं सत्यपि सद्गतिभाग् भाग्यवानेव नापरः । तत्कथम् ? | येन कारणेन वामाक्षीणां वामनयनानां कुटिला भ्रूलता भवति । किं० भ्रूलता ? । उत्प्रेक्ष्यते - कुञ्चिका इव । कुञ्चिका किं कुर्वती ? | निरयनगर द्वारमुद्घाटयन्ती निरय एव नगरं निरयनगरं नरकपुरम् । तस्य द्वारमुद्घाटयितुं शीलं अस्याः सा० । युक्तोऽयमर्थः - अन्यापि या कुञ्चिका भवति सा द्वारमुद्घाटयति ननु । इयं नायिका कुञ्चिका नरकद्वारकपाटमुद्घाटयति ॥ ३९ ॥ अथ नारीनदीवैपम्यतामाह ५६ उन्मीलत्रिवलीतरङ्गवलया प्रोत्तुङ्गपीनस्तनद्वंद्वेनोद्यतचक्रवाक मिथुना वक्राम्बुजोद्भासिनी । कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते संसारार्णवमज्जनं यदि ततो दूरेण संत्यज्यताम् ॥ ४० ॥ आत्मन् ! | यदि चेत् ते तव संसारार्णवमज्जनं संसारसमुद्रस्य ब्रुडनं ते तव न इष्यते न वाञ्छ्यते । ततः तदा त्वया इयं नदी दूरेण संत्यज्यतां दूरतः परिवर्ज्यताम् । किं० नदी ? | कान्ताकारधरा कान्तायाः वल्लभाया आकारं दधतीति ( क. विधर्तीति; हं. छ. दिध[ धरतीति ? ] ) कान्ताकारधरा । वा अथ वा कस्य पानीयस्य अन्ता कान्ता [ अन्तं कान्तं ] आकारं (क. छ. अकारं ) दधतीति ( क. विधर्तीति; हं. छ. दिधर्तीति ) कान्ताकारधरा । पुनः किं० नदी ? | अभितश्चतुर्दिशं सर्वैरपि प्रकारैः क्रूराशया दुष्टपरिणामा । पुनः किं० नदी ? | उन्मीलत्रिवली तरङ्गवलया उन्मीलन्त उल्लसन्तः त्रिवलीतरङ्गानां [णां ] वलया यस्यां सा० । युक्तोऽयमर्थः । यत्र नदी भवति तत्र तरङ्गवलयाः स्युः । या कान्ताकारघरा नदी वर्तते सापि त्रिवलीतरङ्गवल्या भवति ननु । पुनरपि किंविशिष्टा नदी : । प्रोत्तुङ्गपीनस्तनद्वंद्वेनोद्यतचक्रवाक - मिथुना । प्रोपीनस्तनद्वंद्वं प्रोतुङ्गपीनस्तनद्वंद्वम् । तेन प्रोत्तुङ्गपीनस्तनद्वंद्वेन उद्यतं उदयं प्राप्तं चक्रवाकमिथुनं यस्याः सा उद्यतचक्रवाकमिथुना । इदमपि युक्तम् । नद्यस्तु चक्रवाकमिथुना भवन्ति । इयमपि कान्तानदी पीनस्तनद्वंद्वेनोद्यतचक्रवाकमिथुना । पुनः किं० नदी ? | वक्राम्बु १. ह्यात्म । २. ग. गाढं । Jain Education International [ २. ३९-४० ] ३ क. भोजनं । ४ ज. कुञ्चितेव । ५. मर्जनं । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188