Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 87
________________ ५२ भर्तृहरिकृत-शतकत्रयम् [२.२९-३१] स्त्रीणां नारीणाम् । एतद्भूषणम् । च अन्यत् । आयुधमपि । एतत्किम् ? । कटाक्षाः । किं० कटाक्षाः ? । भ्रूचातुर्याकुञ्चिताक्षाः भ्रूचातुर्येण आकुञ्चितानि अक्षीणि याभिस्ता भ्रूचातुर्याकुञ्चिताक्षाः । पुनः किं० । स्निग्धा वाचा मधुरवाण्यः । च अन्यत् । लजितान्ता हासाः । पुनः किं०। प्रस्थितं गमनम् । च अन्यत् । स्थितम् । किं० प्रस्थितं च स्थितं । लीलामन्दं लीलया मन्थरं (क. छ. मन्थिर; च. मन्दिरं)। स्त्रीणामेतानि भूषणानि । परमनोवेधनशस्त्रमपि ॥२८॥ तासां तारुण्यस्वरूपमाहस्मितं किंचिद्वनं सरलतरलो दृष्टिविभवः पैरिस्पन्दो वाचामैभिनवविलासोक्तिसरसः। गतीनामारम्भः किशलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिवें न हि रम्यं मृगदृशः ॥ २९ ॥ तारुण्यं स्पृशन्त्या मृगदृशः । हि निश्चितम् । किमिव (ह) रम्यं न ? । अपि तु रम्यमेव । रम्यं किम् किम् ? । वकं किंचित् सितं हास्ययुक्तम् । दृष्टिविभवः सरलतरलः। वाचा वाणीनां परिस्पन्दो निर्गमः (ख. च. ट. निगमः) अभिनवविलासोक्तिसरसः। अभिनवविलासोक्त्या सरसः अभिनवविलासोक्तिसरसः । पुनः किम् ? । गतीनामारम्भः किशलयितलीला. परिकरः अङ्कुरितलावण्यपरिवारः । तारुण्यसमये पुरन्ध्रीणां किं किं न सुन्दरमित्यर्थः ॥ २९॥ अथ नायिकानां विकारमाहस्मृता भवति तापाय दृष्टी तूंन्मादवर्धनी। स्प॑ष्टा भवति मोहाय सा नाम दयिता कथम् ॥ ३० ॥ नाम इति संबोधने । सा दयिता कथमुच्यते ? । या स्मृता सती तापाय भवति । तु पुनः दृष्टा सती उन्मादवर्ध (°धि) नी भवति । या दयिता स्पृष्टा सती मोहाय भवति, तस्याः [नाम ] दयिता कथं कथ्यते ? ॥ ३० ॥ अथ तासामेव विषन्न [ण्ण ] तामाहआवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयत्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ ३१ ॥ १ ग.तरला दृष्टिविशिखा। २ ख. ग. परिस्फन्दो। ३ ग. अभिमति । ४ ख. घ. 'लयति; च. °लयत । ५ क. ग. छ. किमिह । ६ ग. घ. च. दृष्ट्रा । ७ ख. ग. घ. ज. चोन्मादवर्धिनी। ८ घ. दृष्टा । ९ ग. भुवनं । १० हं. पातनं । ११ घ. स्पृष्टं । १२ ग. निभं प्राणिनां मोहपाशः। १३ घ. पाशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188