Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 52
________________ [१.४०-४१] नीतिशतकम् - मनखिनः पुरुषस्य मानिनो नरस्य द्वयी वृत्तिर्भवति । द्वयी का ? । वा अथवा । सर्वलोकस्य निखिलजगतो मूर्ध्नि भवति मस्तकसमारूढस्तिष्ठति । महत्त्वात् । वा अथवा । वने एव शीर्यते उग्रतपस्त्वात् कृशो भवति । मनस्विनः कस्येव ? । कुसुमस्तबकस्येव पुष्पगुच्छस्येव (हं. भलुछस्येव)। यथा कुसुमस्तबकस्य द्वयी वृत्तिर्भवति । वा अथवा सर्वलोकस्य मूर्ध्नि मस्तके समारूढः सन् तिष्ठति । वा अथवा वने एव शीर्यते विलयं यातीत्यर्थः ॥ ३९ ॥ अथ सेवादुःखमाह कविःमौनान्मूकः प्रवचनपटुर्वातलो जल्पको वा धृष्टः पार्थे भवति च तथा दूरतश्च प्रमादी । क्षान्त्या भीर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥ सेवाधर्मः परमगहनो वर्तते । महदुःखात् । कथम् ? । सेवको मौनात् स्वल्पभाषकात् (छ. भाषणात्) मूक इव कथ्यते । गुणादपि दोषाविर्भावः । सेवकः प्रवचनपटुः शास्त्रवक्ता वातलो वा जल्पकः कथ्यते । तत्रापि गुणान्नैर्गुण्यं जातम् । यदि मूकत्वं दुर्जनैर्दूषितं तदा वक्तृत्वमपि दूषितम् । च अन्यत् । पार्वे भवति समीपवर्ती सेवकः स्यात् , तदा धृष्टः कथ्यते । यतोऽयं गृहतोड्डकवत् न याति दुराशयः क्वापि । तत्रापि गुणाद् दोषता जाता । चेद् दूरतस्तिष्ठति, संकोचशङ्कया तदाऽप्यप्रगल्भः कथ्यते । वा प्रमादी कथ्यते । तत्रापि गुणैर्गलितम् । सेवकः क्षान्त्या क्षमया भीरुः कथ्यते यतोऽयं रको वर्तते । कियानयमस्माभिः संमुखं (हं. सन्मुखं) जस्पितुं कथं शक्तः समर्थः ? । यदि चेन्न सहते साभिमानत्वात् तदा प्रायसः (शः) स्वभावान् नामिजातः अहंकारीति कथ्यते। एवं कृत्वा सेवकस्य सेवाधर्मः परमगहनः कथमपि कर्तुं न शाशक्यते । अन्यदपि गहनं केनापि सेवयितुमशक्यम् । तथायमपि च सेवागहनः । किं० सेवाधर्मः परमगहनः ? । योगिनामप्यगम्यः । अन्यो गहनो योगिभिः साध्यते । लघुसाध्यो (हं. लब्धं साध्यो न) भवति । परमयं सेवाधर्मः परमगहनो योगिभिरपि ज्ञातुं न पार्यते । एतावता सेवा दुःखमयी रहस्यमिति ॥ ४०॥ ___ अथ सत्पुरुषचरित्रस्वरूपमाह कविःनम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्योपयन्तः खार्थान् संपादयन्तो विततपृथुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान् दुर्मुखान् दूषयन्तः सन्तः साश्चर्यव(च)र्या जगति बहुमताः कस्य नाभ्यर्चनीयाः॥४॥ १ घ. दूरतश्चाप्र । २ हं. क्षाप। ३ घ. पृथुफलारम्भ। ४ हं. क. च. वापेक्ष्य; ज 'बोपेक्ष। ५ घ. श्वाश्चर्यचर्या हं. च. साश्चर्यवर्या । ३ शतकत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188