Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 80
________________ [२. ११-१२] नीतिशतकम् तासामेव स्वरूपमाह कविःलीलावतीनां सहजा विलासास् त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धेस् तत्र भ्रमत्येव मुधा षडद्धिः ॥ ११ ॥ लीलावतीनां ललनानां विलासाः सहजाः स्वभावजाता वर्तन्ते । परं मृढस्य हृदि त एव स्फुरन्ति । कोऽर्थः ? । मूढजनश्चेतसीदं विचिन्तयति- इयं प्रमदा मां दृष्ट्वा दृष्ट्वा हावभावविभ्रमविलासान् कुरुते । तन्मुधैव । यतः प्रोक्तं नाममालायाम् (ख. ट. हेमाचार्यैः )। “मोट्टायितं कुट्टमितं ललितं गर्हितं तथा। विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥" इति रहस्यम् । अमुमेवार्थ कविदृष्टान्तेन मूढजनमवबोधयति-नलिन्याः रक्तकमलिन्या रागो निसर्गसिद्धो वर्तते स्वभावोत्पन्नो वर्तते । षडर्भिमरः । तत्र कमलिन्यां मुधा (छ. ट. मुग्धा ) भ्रमति ॥ ११ ॥ सिद्धाध्यासितकन्दरे हरवृषस्कन्धावगाढद्रुमे गङ्गाधौतशिलातले हिमवतः स्थाने स्थिति स्थेयसि । कः कुर्वीत शिरःप्रणाममलिनं मानं मनस्वी जनो यद्युत्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्र स्त्रियः॥१२॥ यदि चेत् स्त्रियो न स्युः । यत्तदोर्नित्यसंबन्धः । इति ज्ञायात् । तदा को मनखी जनः खकीय मानं शिरः प्रणाममलिनं कुर्वीत ? । अपि तु न कोऽपि । किं० स्त्रियः ? । उनस्तकुरङ्गशावनयनाः। उत्रस्तो योऽसौ कुरङ्गः तस्य शाववद् बालकवन् नयने यासां ता उत्रस्तकुरङ्गशावनयनाः। पुनः किं० स्त्रियः ? । स्मरास्त्र कामास्त्रम् । आविष्टपुल्लिङ्गः (हं. क. छ. 'पुल्लिङ्ग) एवंविधा नार्यश् चेन्न स्युः तदा मानं कश्चिदपि नोज्झिष्यत ( नौज्झिष्यत्)। क सति । हिमवतो हिमाचलस्य पर्वतस्य स्थाने स्थिति (छ. स्थितं) स्थेयसि निश्चले सति । किं० हिमवतः स्थाने ? । गङ्गाधौतशिलातले गङ्गया भागीरथ्या धौतं प्रक्षालितं शिलातलं यस्य स० तस्मिन् । पुनः किं० हिमवतः स्थाने ? । हरवृषस्कन्धावगाढद्रुमे । हरस्येश्वरस्य वृषो बलीवर्दः हरवृषः (हं. च. हरिवृषः ), तस्य स्कन्धेन अवगाढा घर्षिता द्रुमा वृक्षा यत्र स हरवृ० तस्मिन् । [पुनः किंभूते हिमवतः स्थाने ? सिद्धाध्यासितकन्दरे सिद्धैरध्यासिता कन्दरा यस्य स तस्मिन् । ] चेद्धिमवतो निरञ्जनानि शृङ्गाणि आत्मार्थसाधकानि वर्तन्ते, तदा परसेवां कः कुर्वीत ? | चेन्नार्यों न भवन्ति ॥ १२ ॥ मनस्विना एकावस्थोपदेशमाह कविःदिर्श वनहरिणीभ्यो वंशकाण्डस्थलीनां कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ।। १. क. च. स्मरंति। २ च. सिद्धिस् । ३. ग. भ्रमत्येष। ४ ग. हरिवृष। ५. ख. घ. स्थिते । ६. ख. दिनवन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188