Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 53
________________ भर्तृहरिकृत शतकत्रयम् [१.४२] सन्तः सत्पुरुषाः। जगति पृथिव्यां कस्य नाभ्यर्चनीयाः ? । अपि तु सर्वस्यापि । किं. सन्तः । बहुमताः बहुभिर्मानिताः । पुनः किं० सन्तः ? । साश्चर्यवर्याः सह आश्चर्येण वयं वर्या सौन्दर्य येषां ते साश्चर्यवर्याः। वा अथवा सह आश्चर्येण चर्या आचरणं येषां ते। तथा सन्तः किं कुर्वन्तः ? । नम्रत्वेन उनमन्तः विनयेन नमनशीलत्वेन उन्नतिं भजन्तः । एतावता नतिः उत्तमानामेव भवति । पुनरपि किं कुर्वन्तः । स्वान् गुणान् ख्यापयन्तः कथयन्तः। कैः । परगुणकथनैः परेषां गुणाः परगुणाः, परगुणानां कथनं परगुणकथनं, तैः । ननु परगुणान् त एव बदन्ति ये उत्तमाः स्युः । सन्तः पुनरपि किं कुर्वन्तः? । परार्थे विततपृथुतरारम्भयत्नाः सन्तः । खार्थान् संपादयन्तः साधयन्तः । वितता विस्तीर्णाः पृथुतरा महान्तः आरम्भयत्नाः येषां ते विततपृथुतरारम्भयत्नाः। एतावता महान्ति परकीयानि कार्याणि कृत्वा स्वकीयानि कार्याणि कुर्वन्ति साधयन्ति । सन्तः पुनरपि किं कुर्वन्तः ? । दुर्मुखान् दूषयन्तः । वा दुःखयन्तः तोदनां (हं. नो दानं ) ददतः । कया? । क्षान्त्यैव क्षमयैव । किं० दुर्मुखान् ? । आक्षेपलक्षाक्षरमुखरमुखान् । आक्षेपेण रूक्षाणि आक्षेपरूक्षाणि यानि अक्षराणि तानि आक्षेपरूक्षाक्षराणि, तैः मुखराणि वाचालानि मुखानि येषां ते क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखाः (हं. च. मुखाः) तान् । एवंविधाः सन्तो भवन्ति ॥ ४१॥ अथ निःशेषनिर्णयमाह कविः लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः ___ सत्यं चेत् तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं निजैः खमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥ रे चेतः!। चेत् यदि लोभः तदाऽगुणेन किम् ? । लोभेन गुणा गलिता एव । तदा नैर्गुण्यमेव जातम् । यतो 'लोभमूलानि पापानि' । यत्र पापं (क. प्रान्ते. छ. लोभो) तत्र अगुणाः स्वयमेव संभवन्तीत्यर्थः । यदि चेत् पिशुनता तदा पातकैः किम् ? । यतः पातकानां मूलं सैव । चेद् यदि सत्यं तदा तपसा किम् ? । तपसां मूलं सत्यमेव । यदि चेत् शुचि मनः तदा तीर्थेन किम् । तीर्थ निर्मलं मन एव । यतस्तत्त्वं किं मनः 'जउ मन चंगा तउ कठउती गंगा' (टें. इति लोकोक्तिः)। यदि चेत् सौजन्यं तदा निजैः किम् ? । तस्य निखिलः संसारी निज एव । सौजन्यखभावात् । यदि चेत् खमहिमा तर्हि मण्डनैः किम् ? । यतः सत्पुरुषाणां महिमैव मण्डनम् । महिमानमन्तरेण मण्डनैः किमित्यर्थः । यदि चेत् सद्विद्या तर्हि धनैः किम् ? । महतो सद्विद्या एव धनं गुरूणां प्रसादतः। चेद् यदि अपयशः तर्हि मृत्युना किम् ? । प्राणिनां मृत्युस्तदेव यदपयशः । यतः स जीवन्नपि मृतः यस्य लोकेऽपश्लोकः ॥ ४२ ॥ ___ १ हं. क. तपसापि. श्लोकस्योत्तरार्ध, हं. कोशे न दृश्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188