Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 76
________________ अथ द्वितीयं शृङ्गारशतकम् । अथ हरचरणस्मरणप्रथमकाव्यमाह - 'चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभस्करो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् । अन्तःस्फूर्जद पारमोहतिमिरप्राग्भारमुच्छेदयंश् चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥ हरो महेशः योगिनामवगत तत्त्वविचारा ( क. रिणां चेतः सद्मनि मानसमन्दिरे विजयते सर्वोत्कर्षेण वर्तते । किं० हरः ? | ज्ञानप्रदीपः । ज्ञानस्य प्रदीपः ज्ञानप्रदीपः । जगदुद्द्योतकत्वात् । किं० ज्ञानप्रदीपः ?। चूडोत्तंसितचारुचन्द्र कलिकाचञ्चच्छ्रिखाभास्करः । चूडावन् मुकुटवदुत्तंसिता (क. छ. चोर्ध्वकृता ) चार्वी ( क. छ. चारुः ) मनोज्ञा चन्द्रकलिका तस्याः, चञ्चच्छिखायां भासं दीप्तिं करोतीति चूडोत्तंसितचारुचन्द्रकलिका चञ्चच्छिखाभास्करः । अन्योऽपि प्रदीपः चञ्च( हं.° पंच ̊ )च्छिखाभास्करो भवति । अत्रापि चारुचन्द्रकलिकाचञ्चच्छिखाभास्करो वर्तते - कान्तिकरो वर्तते । पुनः कथंभूतः ज्ञानप्रदीपो हरः ? । लीलादग्धविलोलका मशलभः । लीलया दग्धो विलोलश्चञ्चलः कामशलभो येन स लीलादग्धविलोलकामशलभः । युक्तोऽयमर्थः - अन्योऽपि प्रदीपः शलभानां पतङ्गानां दहति । तथाऽयं ज्ञानप्रदीपो हरः कामशलभस्य दाहं कुरुते । पुनः किं० ज्ञानप्रदीपो हरः ? । श्रेयोदशाग्रे स्फुरन् । श्रेयांस्येव कल्याणान्येव दशायं श्रेयोदशाग्रम् । तत्र स्फुरतीति श्रेयोदशाग्रे स्फुरन् । युक्तम् । अन्योऽपि दीपो दशाग्रे स्फुरति । ननु अयमपि हरः प्रदीपः श्रेयोदशाग्रे स्फुरतीति भावः । पुनः किं कुर्वन् । अन्तःस्फूर्जदपारमोह तिमिर प्राग्भारमुच्छेदयन् । अन्तर्गतं स्फूर्जदुल्लसत् अपारं मोहतिमिरस्य प्राग्भारम् उच्छेदयन् स्फेटयन् । अत एव ज्ञानप्रदीपो हरः कथ्यते ॥ १ ॥ अधुना शुभाशुभकर्मणोः फलमाह - शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमतिस्फीते शुभे कर्मणि । Jain Education International विच्र्च्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव प्रयाति झटिति भ्रस्यद् दिशो दृश्यताम् ॥ २ ॥ प्राणिना शुभे कर्मणि इत्यनुभूयते एवं फलमुपभुज्यते । किं० शुभे कर्मणि ? । स्थिरमतिस्फीते । स्थिरा चासौ मतिः स्थिरमतिः, स्थिरमतेर्नरस्य स्फीतं स्थिरमतिस्फीतं, तस्मिन् । इतीति किम् ? । शुभ्रं सद्म महद्भवलं गृहम् । अन्यच्च सविभ्रमा युवतयः हावभाव - १ घ. भास्वरो । २. ख. उद्भेदयन् छ. अच्छेदयन् । ३ग. स्थिरमिव; घ. स्फिरमिव । ४. ग. छिन्नस्मिन् । ५. घ. झटति.; ज. त्रुटिति । ६ शतकत्र० For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188