Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 65
________________ भर्तृहरिकृत - शतकत्रयम् अपि जडविधे ! कल्याणाय व्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ ७४ ॥ हे जडविधे हे मूर्खदैव ! अस्माद्दुरध्यवसायतो दुष्टाभिप्रायतो विरम विरतिं भज किं० दुरध्यवसायतः । विरसायासात् । विरसो विरङ्गो आयासो यस्य स विरसायासः; तस्मात् । हे विधे ! यत्त्वं विपदि कष्टे सति महतां धैर्यध्वंसं साहसविनाशं ईक्षितुमीहसे विलोकयितुं वाञ्छसि । हे जडविधे ! एते कुलशिखरिणः कुलगिरयः वा अथवा जलराशयः समुद्राः क्षुद्रा न अणवो न । किं० कुलशिखरिणः तथा जलराशयः ? । कल्याणाय व्यपेतनिजक्रमाः स्वकीय अनुक्रमाः । एतावता महतां साहसव्यपगमं धैर्यध्वंसं न कोऽपि कर्तु क्षमः ॥ ७४ ॥ अथ दुरात्मनां प्रकृतिमाह कविः अकरुणत्वमकारणविग्रहः परंधनाय रतिः परयोषिति । स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥७५॥ हि निश्चितम् । दुरात्मनां इदं प्रकृतिसिद्धं सहजसंपन्नम् । इदं किम् ? । अकरुणत्वं निर्दयत्वम् । दुरात्मनां सहजेन अकरुणत्वं भवति । अन्यच्च । दुरात्मनां अकारणविग्रहो भवति । तथा दुरात्मनां परधनाय रतिर्भवति परधनहरणे संतोषो भवति । अपरं स्वजनबन्धुजनेषु कुटुम्बवर्गेषु असहिष्णुता भवति मत्सरः स्यात् ॥ ७५ ॥ अथ धीरस्य धीरत्वमाह कविः -- कान्ताकटाक्षविशिखा न खनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः । कर्षन्ति भूरिविषयाश्च न लोभपाशा [१.७४-७७] लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ ७६ ॥ स धीरः इदं कृत्स्नं समस्तं लोकत्रयं जयति जयनशीलो भवति । यस्य सत्पुरुषस्य कान्ताकटाक्ष विशिखा प्रियाकटाक्षबाणाः । चित्तं न खनन्ति । 'खन विदारणे' । न विदारयन्ति । अन्यच्च यस्य चित्तं कोपकृशानुतापः क्रोधवैश्वानरतप्तिः । चित्तं न निर्दहति न प्रज्वालयति । चान्यद् लोभपाशा न कर्षन्ति नाक्रमन्ति । किं० लोभपाशाः ? । भूरिविषयाः भूरिः प्रचुरो विषयो गोचरो येषां ते भूरिविषयाः । त एव धन्या येषामेते विशेषाः प्रधनं (च. ट. प्रधानं ) यान्ति ॥ ७६ ॥ अथ खल- सज्जनयोः प्रीतेः स्वरूपमाह कविः - आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खल-सज्जनानाम् ॥ ७७ ॥ १ क. छ. क्षुद्रो । २ ग. परधनापहृतिः परयोषितः । ३ ग. प्रकृत । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188