Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 48
________________ [१.२८-३१] नीतिशतकम् अथ महतां चेष्टितमाहसंपत्सु महतां चित्तं भवेदुत्पलकोमलम् । आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ २८ ॥ महतां चित्तं महानुभावानां मनः संपत्सु उत्पलकोमलं भवेत् कमलवत् सुकुमारं (ट. समाकुलं) स्यात् । च अन्यत् । आपत्सु कष्टेषु महाशैलशिलासंघातकर्कशं भवेत् । महांश्चासौ शैलो महाशैलः महागिरिः, तस्य शिलायाः संघातः महाशैलसंघातः, तद्वत् कर्कशं कठोरं चित्तं भवति ॥ २८॥ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ २९ ॥ कमलानां पङ्कजानां रक्तत्वम् । सत्पुरुषाणां महतां परोपकारित्वम् । च अन्यत् । असतां दुर्जनानां निर्दयत्वं निःकृपत्वम् । त्रिषु स्थानकेषु पूर्वोक्तमेतत् त्रितयं स्वभावसिद्धं भवति सहजसिद्धं स्यात् ॥ २९ ॥ दुर्जनः परिहर्तव्यो विद्यया भूषितोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ ३० ॥ सुगमम् ॥ ३०॥ अथ मैत्रीसौन्दर्यस्वभावमाहक्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस् तेंदभवद् दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीशी ॥ ३१ ॥ जगति पृथिव्यां पुनमैत्री सुहृत्ता (ट. सुहृदो भावः) ईदृशी भवति । यथा क्षीरनीरयोः । कीदृशी सा मैत्री ? । क्षीरेण दुग्धेन आत्मगतोदकाय स्वसमीपसंयुक्ताय वारिणे पुरा पूर्वमपि तेऽखिलाः समस्ता अपि स्वकीयाः प्रोज्ज्वलित (हं. क. प्रोज्ज्वलिम; ट. गरिम) गुणा दत्ताः । अथ पश्चात् हि निश्चितम् । तेन पयसा तेन वारिणा क्षीरे तापमवेक्ष्य स्वमित्रस्य दुग्धस्य कष्टं विलोक्य आत्मा कृशानौ वैश्वानरे हुतः आहुतीकृतः । तदनु च, पयसः पानीयस्य तादृशं स्वरूपं अवलोक्य प्रेमस्वरूपमपि प्रेक्ष्य तत् दुग्धं उन्मनः सन् पावकं गन्तुं अभवत् । वैश्वानरे पतिसुमभिललाष । किं कृत्वा ? | मित्रापदं तु दृष्ट्वा । तदुद्धान्तं क्षीरं नीरेण १ घ. भवत्युत्पल ।२ घ.आपत्स्वपि शिलाशैल। ३ ज. तापमवेत्य, घ.क्षीरं तप्तमवेश्य। ४ग. घ. उन्मनाः। ५घ. समभवद् । ६ नु. तु. वर्णयोःप्रायोन मेदः। ७ग. ताहशी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188