Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 37
________________ भर्तृहरिकृत-शतकत्रयम् [१.२] संजाते जगति का वृद्धिर्भवित्री ? स एवाजरामरः संजातो रुचिरो येन जगज्जीवति । तज्जगज्जीवनं राजानमन्तरेण न बोभोति ।" तद्विचिन्त्येहागत्य त्वत्पुरस्ताड् ढौकितमिदं फलम् ।" राजाऽप्यजरामरफलस्य महिमानमवगम्य प्रहर्षाञ्चितस्तस्मै विप्राय पारितोषिकं ददौ । स्वमनसि चिन्तितं च-"अहो मयि जीवति ममापि कश्चिद् वल्लभो जनो मरति तदाहं दुःखभाग् जीवामि । मम पट्टमहादेवी राज्ञी प्राणतोऽपि प्रिया वर्तते । तस्यै यच्छामि"-व्यचिन्त्येति तदा दासिकाहस्ते सौधान्तः प्रहित्य राश्यै प्रदत्तम् । तथापि निजमानसे मानसितम्-"अहो ममापि वल्लभः । कोऽपि म्रियते तदाहं कथं करोमि ।" तयापि पोन्तारस्य प्रदत्तम् । तस्यापि वल्लभा दासिका वर्तते । तस्यै दत्तम् । तयापि चेतसि चिन्तितम्-"अहो मयि दुःखजीविन्यां जीवन्त्यां के समुद्धारा भविष्यन्ति ।" ज्ञात्वेति तया पुनः राज्ञे तत्फलं प्रदत्तम् । राज्ञापि तत्फलं विलोक्य विलोक्य दासीसमीपे पृष्टम् । “तुभ्यं केन दत्तमिदम् ?।" अत्याग्रहेण भाष्य पृष्टा, सत्यं तया बभाषे-“मह्यं पोन्तारेण दत्तम् ।” सोऽपि तथैव पृष्टो बभाषे-"मह्यं राश्या दत्तम् ।” तं परमार्थ मत्वा निर्वेदमानसो जातः । अन्तःपुरान्तः समेत्य राज्ञीसमीपं तत्फलं ययाचे । तया मुन्मनालापपुरःसरं राजा बभाषे-“हे स्वामिन् ! मया भक्षितम्।" सदाकातितमां वैराग्यरङ्गतरङ्गितचित्तो बभूव । उक्तं च-अहो संसारस्य दुर्विलसितम् । यां अहं सततं निरन्तरं वल्लभां प्राणप्रियां चेतसि चिन्तयामि गणयामि सा मयि विषये विरका सती अन्यं जनं इच्छति पोन्तारं वाञ्छति । स पोन्तारोन्यासक्तो वर्तते, दासीरतो वर्तते च । काचिद् अन्या या नायिका अपरा नितम्बिनी अस्मत्कृते परिशुष्यति मनोरथैरस्माकं पान्छति । तस्मात् धिक् तां च तं च मदनं च इमां च मां च । कोऽर्थः ? । पूर्व तां मद्वल्लभा धिक् । रे दुराशये ! मम सदृशं भूपतिं भर्तारं लब्ध्वा मेण्ठे किमनुरक्ता ? । तं मेण्ठं धिक् । रे मूढात्मन् ! पट्टमहादेवी मां विहाय त्वयि रागं विधत्ते । तदुपरि त्वं किं विरक्तः।। च अन्यत्मदनं धिक् यो निरर्थकं त्रिभुवनं विडम्बयति विगोपयति । च अन्यत्- इमां दासी धिक् । या तादृशं प्रेमपरायणं मेण्ठं पतिं प्राप्य तदुपरि विरक्ता ।। वसन्ततिलका छन्दः-'उक्ता वसन्ततिलका तभजा जगौ गः ।' उपशमालंकारः ॥ १ ॥ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ २ ॥ न जानातीत्यज्ञः । अज्ञो मूर्खः सुखं आराध्यो भवति सुखेनाराध्यः स्यात् । सुखेन प्रतिबोध्यत इत्यर्थः । विशेषज्ञो विद्वान् सुस्तरमाराध्यते अवबोध्यते । अत्यन्तं सुखेन सुखतरम् । “प्रकृष्टे तरतमौ" तरप्रत्ययः । ज्ञानलवदुर्विदग्धं नरं ब्रह्मापि न रञ्जयति नावबोधयति । कोऽर्थः । ज्ञानस्य लवः ज्ञानलयः, ज्ञानलवेन ज्ञानलेशेन खण्डखण्डपाण्डित्येन दुर्विदग्धं कदाग्रहग्रहप्रस्तं विश्वस्रष्टापि प्रतिबोधयितुं न शक्नोतीत्यर्थः। ... : गाथा पथ्या छन्दः । यतः प्रोक्तम्-'त्रिष्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति' माम तस्याश्छन्दोविद्भिः समाख्यातम् ॥' विषमालंकारः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188