Book Title: Bhartuhari Shataka Trayam
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: ZZZ Unknown

Previous | Next

Page 43
________________ भर्तृहरिकृत-शतकत्रयम् [१. १६-१८] इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम् इतश्च शरणार्थिनः शिखरिपत्रिणः शेरते । इतश्च वडवानलः सह समस्तसंवर्तकैः __ अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ १६ ॥ अहो इति आश्चर्ये । सिन्धोः समुद्रस्य वपुः शरीरं विततं (हं. चिंतितं) विस्तीर्णम् । ऊर्जितं गर्जितं [ट. बलयुक्तं] वा । च अन्यत् । भरसहं भारक्षमं विलोक्यताम् । केन प्रकारेण ? । इतः एकस्मिन् प्रदेशे, केशवो नारायणः स्वपिति शयनं कुरुते । वर्षाकाले जलशायित्वात् । इतः अन्यस्मिन् प्रदेशे, तदीयद्विषां तस्य नारायणस्य वैरिणां कुलं कुटुम्बम् । च अन्यत् । इत: कस्मिंश्चिदपि प्रदेशे, शिखरिपत्रिणः पर्वतपक्षिणः शेरते शयनं कुर्वते। इतः कस्मिंश्चिदपि प्रदेशे, समस्तसंवर्तकैः जीवैः समं सह वडवानलो वर्तते । पृथ्वीगुरुच्छन्दः-'जसौ जसजला वसुग्रहयतिश्च पृथ्वी गुरुः' ॥ १६ ॥ उदन्वच्छन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः ___सतां प्राज्ञोन्मषः पुनरयमसीमा विजयते ॥ १७ ॥ प्रायो बाहुल्येन वा सर्वेऽपि भावाः निखिला अपि पदार्थाः । इति अमुना प्रकारेण । स्फुरदवधिमुद्रामुकुलिताः मुद्राङ्किता वर्तन्ते । कोऽर्थः ? । स्फुरन्ती या अवधिमुद्रा स्फुरदवधिमुद्रा, ताभिः मुकुलिताः मर्यादीकृताः संनिबद्धा इत्यर्थः । के के भावाः ? । इतीति किम् । भूः पृथ्वी उदन्वच्छन्ना वर्तते समुद्रान्ता वर्तते । स च अपां निधिः योजनशतं योजनानां शतं शतसहस्रलक्षादियोजनप्रमित इत्यर्थः । पूषा पान्थः सदा सर्वदा गगनपरिमाणं कलयति आकाशसीमा मर्यादां करोति । पुनः पुनरपि । अयं सतां उत्तमानां प्राज्ञोन्मेषः मतिसमुल्लासः असीमा मर्यादारहितो विजयते सर्वोत्कर्षेण वर्तते । सतां उत्तमानां प्राज्ञोन्मेषस्य मतिवैभवस्य सीमा नास्तीत्यर्थः । शिखरिणी छन्दः ॥ १७॥ कचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कर्शयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । कचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनखी कार्यार्थी गणयति न दुःखं न च सुखम् ॥ १८ ॥ १ टीकासु शय्यः। २ क्वचिन्मातृकासु शयनं। ३ घ. ट. न गणयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188