Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 406 // नि०-भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य ।वेमाणिया यमणुया पयाहिणं जंच निस्साए॥५६०॥ भवनपतयः ज्योतिष्का बोद्धव्या व्यन्तरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तरपश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः। किं?- पयाहिणं प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति // अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वास्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितम्, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति, देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन / जंच निस्साए त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः॥५६०॥साम्प्रतमभिहितमेवार्थं संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकार: भा०-संजयवेमाणित्थी संजय (इ) पुव्वेण पविसिउंवीरं / काउंपयाहिणं पुव्वदक्खिणे ठंति दिसिभागे // 116 // संयता वैमानिकस्त्रियः संयत्यः पूर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः॥ भा०- जोइसियभवणवंतरदेवीओदक्खिणेण पविसंति / चिटुंति दक्खिणावरदिसिंमि तिगुणं जिणं काउं॥११७॥ ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुणं जिनं कृत्वा इति गाथार्थः॥ भा०- अवरेण भवणवासी वंतरजोइससुरा य अइगंतुं / अवरुत्तरदिसिभागे ठंति जिणं तो नमंसित्ता // 118 // अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम्, अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः॥ भा०-समहिंदा कप्पसुरा राया णरणारिओ उदीणेणं / पविसित्ता पुव्वुत्तरदिसीऍ चिटुंति पंजलिआ॥११९॥ 0.3 उपोद्घातनियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्ति:५६० अवृत्तपूर्व महर्द्धिकागमे वासमवसरणरचना, प्राकारादि विधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। भाष्यः 116-119 // 406 //

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498