Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 420 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 596-597 गणधरा नि०-'जीवे कम्मे तज्जीव भूर्य तारिसय बंधमोक्ख या देवा णेरइएं या पुण्णे परलोय जेव्वाणे // 596 // एकस्य जीवे संशयः- किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानवरणीयादिलक्षणं कर्म किमस्ति नास्ति? इति, अपरस्य तज्जीवे त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायां इति, तथा भूते ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य तारिसय त्ति किं यो यादृश इह भवे स तादृश एव अन्यस्मिन्नपि? उत नेति, बन्धमोक्खे य त्ति अपरस्य तु किं बन्धमोक्षौ स्तः? उत न इति, आह- कर्मसंशयात् अस्य को विशेष इति?, उच्यते, सह देवघोषः, कर्मसत्तागोचरः,अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति? नेति वा, (११)ऽऽगमः अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्त प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थंदुःखस्य उत तदतिरिक्तंपापमस्ति आहोस्विदेकमेव उभयरूपं उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको- भवान्तरलक्षणः किमस्ति नास्ति? इति, निर्वाणअपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति? इति, आह-बन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा किं संसाराभावमात्र एव असौ मोक्षः? उत अन्यथा? इत्यादि, इति गाथार्थः॥ 596 / साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आह नि०- पंचण्हं पंचसया अद्भुट्ठसया यहोंति दोण्ह गणा। दोण्हं तुजुयलयाणं तिसओ तिसओ भवे गच्छो॥५९७॥ पञ्चानामाद्यानां गणधराणां पञ्च शतानि प्रत्येकं प्रत्येकं परिवार इति, तथा अर्द्ध चतुर्थस्य येषु तानि अर्धचतुर्थानि 2 शतानि / अर्द्धचतुर्थशतानि 2 मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक जीव-कर्मतञ्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक संशया:, परिवारः, अमर्ष: वेदपदार्थः, दीक्षा // 420 //

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498