Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 459
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 437 // अमृता- अमरणधर्माणः अभूम- भूताः स्म, अगमन्- गताः ज्योति:- स्वर्गम्, अविदाम देवान्- देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः- अरातिर्व्याधिः किमु- प्रश्ने धूर्त्तिः- जरा अमृतमर्त्यस्य- अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टव्यम्, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः? तथा सौम्य! त्वमित्थं मन्यसे-नारकाः सङ्क्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयंच दुःखसम्प्रतप्तत्वादिहागन्तुमशक्ता एव, अस्माकमप्यनेन शरीरेण तत्र कर्मवशतया एव गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपायासम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु,ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृष्टदिव्यप्रभावात् इहागमनसामर्थ्यवन्तस्ते किमितीह नागच्छन्ति? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः- को जानाति? मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेरादीनि त्यादि, तत्र परमार्थचिन्तायां सन्ति देवाः, मत्प्रत्यक्षत्वात्, मनुष्यवत्, भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमम्, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणं- नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्तविच्छिन्नरम्यदेशान्तरगतमनुष्यवत्, तथाऽसमाप्तकर्त्तव्यत्वाद्, बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत्, तथाऽनधीनमनुजकार्यत्वात्, नारकवत्,अनभिमतगेहादौ निःसङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति, मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छ - न्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन। 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्ति: 624 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवारः, अमर्षः, वेदपदार्थः, दीक्षा। // 437 //

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498