Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 469 // इति, द्विविधा च चारित्रार्थाये'ति यदुक्तं तत्प्रदर्शनायाह- वेयावच्चे खमणे काले आवकहाइ य चारित्रोपसम्पद् वैयावृत्यविषया क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति-चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते,सच कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः ।साम्प्रतमयमेवार्थो विशेषतः प्रतिपाद्यते- तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पद्दातव्येति मौलिकोऽयं गुण इति, एतत्प्रभवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिधित्सुराह नि०- संदिट्ठो संदिट्ठस्स चेव संपज्जई उ एमाई। चउभंगो एत्थं पुण पढमो भंगो हवइ सुद्धो॥७००॥ सन्दिष्टो गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं- तद्यथा- सन्दिष्टः सन्दिष्टस्योक्त एव, सन्दिष्टः असन्दिष्टस्यान्यस्याऽऽचार्यस्येति द्वितीयः, असन्दिष्टः सन्दिष्टस्य, न तावदिदानी गन्तव्यं गन्तव्यं त्वममुकस्येति तृतीयः,असन्दिष्टः असन्दिष्टस्य- न तावदिदानी गन्तव्यं न चामुकस्येति, अत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनःशब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्तिनिमित्तमन्येऽपि द्रष्टव्या इति गाथार्थः // साम्प्रतं वर्त्तनादिस्वरूपप्रतिपादनायाह नि०- अथिरस्स पुव्वगहियस्स वत्तणा जंइहं थिरीकरणं / तस्सेव पएसंतरणट्ठस्सऽणुसंधणा घडणा॥७०१॥ नि०- गहणं तप्पढमतया सुत्ते अत्थे य तदुभए चेव / अत्थग्गहणंमि पायं एस विही होइ णायव्वो॥७०२॥ गाथाद्वयं निगदसिद्धमेव / नवरं-प्रायोग्रहणंसूत्रग्रहणेऽपिकश्चिद्भवत्येव प्रमार्जनादिरितिज्ञापनार्थम् ।।साम्प्रतमधिकृत®आचार्यस्य / 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 700-703 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्वि भेदाः / // 469 //

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498