Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 494
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / 472 // नि०- आसायणाविणेवं पडुच्च जिणवयणभासयं जम्हा। वंदणयं राइणिए तेण गुणेणंपि सोचेव॥७१४ // प्रकटाथैव / नवरं तेन गुणेन अर्हद्वचनव्याख्यानलक्षणेनेति / इदानीं प्रसङ्गतो वन्दनविषय एव निश्चयव्यवहारनयमतप्रदर्शनायाह नि०- नवओ एत्थ पमाणं न य परियाओऽवि णिच्छयमएणं / ववहारओ उ जुज्जइ उभयनयमयं पुण पमाणं // 715 // नवयः अवस्थाविशेषलक्षणं अत्र वन्दनकविधौ प्रमाणम्, न च पर्यायोऽपि प्रव्रज्याप्रतिपत्तिलक्षणः निश्चयमतेन निश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिव्यवहारलोपातिप्रसङ्गनिवृत्त्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमिति सन्देहापनोदार्थमाह- उभयनयमतं पुनः प्रमाणमिति गाथार्थः॥प्रकृतमेवार्थं समर्थयन्नाह___नि०-निच्छयओ दुन्नेयं-को भावे कम्मि वट्टई समणो?। ववहारओ उ कीरइ जो पुव्वठिओ चरित्तंमि // 716 / / निश्चयतो दुर्जेयं-को भावे कस्मिन्- प्रशस्तेऽप्रशस्ते वा वर्त्तते श्रमण इति, भावश्चेह ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियतेवन्दनं यः पूर्वस्थितश्चारित्रेयः प्रथमं प्रव्रजितःसन्ननुपलब्धातिचार इति गाथार्थः / / आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात, तस्यापि च बलवत्त्वाद्, आह च भाष्यकार: भा०- ववहारोऽविहु बलवंजं छउमत्थंपिवंदई अरहा / जा होइ अणाभिण्णो जाणतो धंमयं एयं // 123 // व्यवहारोऽपि च बलवानेव, यद् यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादि वन्दते अर्हन्नपि केवल्यपि, अपिशब्दोऽत्रापि 7 प्राप्नोतीत्यतः प्र०। 0.3 उपोद्घात| नियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। | नियुक्तिः 714-716 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्वि भेदाः। भाष्यः 123 // 472 //

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498