Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ | 0.3.5 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 474 // यावत्योपसम्पत्रित्रिद्धि वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्य्यते, इतरस्तूपाध्यायादिभ्यो / 0.3 उपोद्घातदीयते इति, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते, इतरस्तूपाध्यायादिभ्यो दीयत इति, अथ नेच्छति ततो नियुक्तिः, वास्तव्य एव प्रीतिपुरस्परं तेभ्यो दीयते, आगन्तुकस्तु कार्यत इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको पञ्चमद्वारम्, विसयंत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वित्वर इत्यत्राप्येवमेव भेदाः कर्त्तव्याः यावदागन्तुको विसयंते, नानात्वं दशधा सामाचारी। तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राम्यत इति, अथ वास्तव्यः खल्वित्वरः आगन्तुकस्तु यावत्कथिकः, | नियुक्ति: 719 ततोऽसौ वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिभ्यः ज्ञानदर्शन चारित्रोपकार्यते शेषं पूर्ववद्, अन्यतमो वाऽवधिकालं यावद्धार्यत इत्येवं यथाविधिना विभाषा कार्येति / उक्ता वैयावृत्योपसम्पत्, | सम्पदः साम्प्रतं क्षपणोपसम्पत्प्रतिपाद्यते-चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, सच क्षपको द्विविध:- इत्वरोयावत्कथिकश्च, | भेदाः / यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विधा- विकृष्टक्षपकोऽविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्ट इति / तत्रायं विधिः- अविकृष्टक्षपकः खल्वाचार्येण प्रष्टव्यः- हे आयुष्मन्! पारणके त्वं कीदृशो भवसि?, यद्यसावाह-ग्लानोपमः, ततोऽसावभिधातव्यः- अलं तव क्षपणेन, स्वाध्यायवैयावृत्यकरणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते- विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव, यस्तुमासादिक्षपको यावत्कथिको वास इष्यत एव, तत्राप्याचार्येण गच्छः प्रष्टव्यो- यथाऽयं क्षपक उपसम्पद्यत इति, अनापृच्छय गच्छं सङ्गच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते- यथाऽस्माकं एकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ ध्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्य // 474 //

Page Navigation
1 ... 494 495 496 497 498