Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 473 // सम्बध्यते / किं सदा?, नेत्याह-जा होइ अणाभिन्नो त्ति यावद् भवत्यनभिज्ञात:यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन्धर्मतामेतांव्यवहारनयबलातिशयलक्षणामिति गाथार्थः ॥आह- यद्येवंसुतरांवयःपर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम्, आशातनाप्रसङ्गादिति, उच्यते, नि०- एत्थ उजिणवयणाओ सुत्तासायणबहुत्तदोसाओ।भासंतगजेट्ठगस्स उ कायव्वं होइ किइकम्मं // 717 // __ अत्र तुव्याख्याप्रस्ताववन्दनाधिकारे जिनवचनात् तीर्थकरोक्तत्वात् तथाच अवन्द्यमाने सूत्राशातनादोषबहुत्वात् भाषमाणज्येष्ठस्यैव प्रत्युच्चारणसमर्थस्यैवेत्यर्थः, किं?, कर्त्तव्यं भवति कृतिकर्म वन्दनमिति गाथार्थः॥ एवं तावद् ज्ञानोपसम्पद्विधिरुक्तः, दर्शनोपसम्पद्विधिरप्यनेनैव तुल्ययोगक्षमत्वादुक्त एव वेदितव्यः, तथा च दर्शनप्रभावनीयशास्त्रपरिज्ञानार्थमेव दर्शनोपसम्पदिति // अधुना चारित्रोपसम्पद्विधिमभिधातुकाम आह नि०-दुविहाय चरित्तंमी वेयावच्चे तहेव खमणे य। णियगच्छा अण्णंमियसीयणदोसाइणा होति // 718 // द्विविधाच चारित्रविषयोपसम्पवैयावृत्त्यविषया तथैव क्षपणविषयाच, आह-किमत्रोपसम्पदा?,स्वगच्छ एव तत्कस्मान्न क्रियत इति, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति गच्छस्य, आदिशब्दादन्यभावादिपरिग्रह इति गाथार्थः॥ नि०- इत्तरियाइविभासा वेयावच्चंमि तहेव खमणे य / अविगिट्ठविगिट्टमि य गणिणो गच्छस्स पुच्छाए॥७१९॥ इह चारित्रार्थमाचार्यस्य कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वैयावृत्यकरोऽस्ति वा न वा, तत्रायं विधिः- यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स इत्वरो वा स्याद्यावत्कथिको 0.3 उपोद्घातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 717-719 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्विभेदाः / 8888888888888 // 473 //

Page Navigation
1 ... 493 494 495 496 497 498