Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 435 // 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। भवतोऽभिप्रायो- बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादिरहितो वा स्यात्?, यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः आहोश्विद्युगपदुभयस्येति?, किंचातः, न तावत्पूर्वमात्मप्रसूति. युज्यते, निर्हेतुकत्वाद्, व्योमकुसुमवत्, नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात्, न चाकर्तृकं कर्म भवति, युगपत्प्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्यप्यात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम् / नियुक्तिः अन्यथा मुक्तस्यापि बन्धप्रसङ्गः, तथा च सति नित्यमोक्षत्वान्मोक्षानुष्ठानवैयर्थ्यम्, अथ द्वितीयः पक्षः, तथापि नात्मकर्म- 619-620 देवघोषः, वियोगो भवेद्, अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः / तत्र वेदपदानामयमर्थः- स एष-मुक्तात्मा विगताः छाद्मस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः- विज्ञानात्मना सर्वगतः न बध्यते- मिथ्यादर्शनादिबन्धकारणाभावात् संसरति वा- मनुजादिभवेषु कर्मबीजाभावात्, नेत्यनुवर्तते, न देव-नारकमुच्यते, मुक्तत्वात्, मोचयति वा तदा खलूपदेशदानविकलत्वात्, नेत्यनुवर्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह- नवा एष निर्वाणमुक्तात्मा बाह्य-म्रक्वन्दनादिजनितं आभ्यन्तरं आभिमानिकं वेद- अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणि तुसुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, अमर्षः, नचानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपिज्ञानदर्शनचारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यतो वर्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्वं च वर्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्तमानत्वमनुभूतमथ चासावनादिरिति, न गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्ध पण्य-परलोक संशया:, परिवारः, वेदपदार्थ: दीक्षा। // 435 //

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498