Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 485
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 463 // 8षयाऽऽह नि०-कप्पाकप्पे परिणिट्ठियस्स ठाणेसुपंचसु ठियस्स।संजमतवडगस्स उ अविकप्पेणं तहाकारो॥६८८॥ कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादिर्वा कल्पः, चरकादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावस्तस्मिन् कल्पाकल्पे, परि-समन्तात् निष्ठितः परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः, तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि- महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, तथा संयमतपोभ्यामाढ्यः-सम्पन्न इत्यनेनोत्तरगुणयुक्ततामाह, तस्य किमित्याह- अविकल्पेन निश्चयेन, किं?- तथाकारः, कार्य इति क्रियाध्याहार इति गाथार्थः // इदानीं तथाकारविषयप्रतिपादनायाह नि०-वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए।अवितहमेयंति तहा पडिसुण्णाए तहक्कारो॥६८९ ।।दारं॥ वाचना- सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणं- प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायाम्, तथाकारः कार्यः, एतदुक्तं भवति- गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे-चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा सुत्तअत्थकहणाए त्ति सूत्रार्थकथनायाम्, व्याख्यान इत्यर्थः, किं?तथाकारः कार्यः, तथाकार इति कोऽर्थ इति?, आह- अवितथमेतत् यदाहु!यमिति, न केवलमुक्तेष्वेवार्थेषु तथाकारप्रवृत्तिः, तथा पडिसुणणाए त्ति प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायांच तथाकारप्रवृत्तिरिति, चशब्दलोपोऽत्र द्रष्टव्य इति गाथार्थः॥ साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाह नि०- जस्स य इच्छाकारो मिच्छाकारोय परिचिया दोऽवि। तइओ य तहक्कारो न दुल्लभा सोग्गई तस्स // 690 // 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 688-690 | तथाकारस्य योग्यो विषयः, इच्छादेः फलंच। // 463 //

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498