Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 660-661 कालनिक्षेपाः भाग-१ // 449 // (11) द्रव्ये उक्तः सामायिकार्थसूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, साम्प्रतं क्षेत्रद्वारमवसरप्राप्तमुल्लङ्घय कालद्वारमुच्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वात् अन्तरङ्गत्वाद् अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवान् इति परिभाषासामर्थ्यादिति, नियुक्तिकृता तु क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति / स च कालो नामाघेकादशभेदभिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽह नि०-दव्वे अद्ध अहाउय उवक्कमे देसकालकाले य। तह य पमाणे वण्णे भावे पगयं तुभावेणं ॥६६०॥दारगाहा॥ / तत्र द्रव्य इति वर्तनादिलक्षणो द्रव्यकालोवाच्यः, अद्धे ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः तथा यथाऽऽयुष्ककालो देवाद्यायुष्कलक्षणोवाच्यः, तथा उपक्रमकालः अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभाग: पर्याय इत्यनर्थान्तरम्, ततश्चाभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिकः, कालोमरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः, चः समुच्चये, तथा च प्रमाणकालः, अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्णकालः, भावि त्ति औदयिकादिभावकाल: सादिसपर्यवसानादिभेदभिन्नोवाच्य इति, प्रकृतं तु भावेने ति भावकालेनाधिकार इति गाथासमुदायार्थः॥साम्प्रतमवयवार्थोऽभिधीयते-तत्राद्यद्वारावयवार्थाभिधित्सयाऽऽह नि०-चेयणमचेयणस्स वदव्वस्स ठिइ उजाचउवियप्पा।सा होइ दव्वकालो अहवादवियं तु तं चेव // 661 // चेतनाचेतनस्य देवस्य स्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य स्थानं- स्थितिरेव यासादिस स्थिति: (4) अद्धायां समयाद्याः, तानुभवः, उपक्रमे त्रिविधा सामाचारी ओघाद्या(३)। // 449 //

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498