Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 454 // भवेद्व्यापृतः कारणैरसौ तदा सञ्जातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रत्नाधिकं विहायान्येषां करोतीति गाथार्थः॥ आह च नि०- राइणियं वजेत्ता इच्छाकारं करेइ सेसाणं / एयं मज्झंकजं तुब्भे उ करेह इच्छाए / 671 // रत्नानि द्विधा- द्रव्यरत्नानि भावरत्नानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरत्नानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनतामङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच्च, भावरत्नैरधिको रत्नाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणाम्, कथमित्याह- इदं मम कार्य- वस्त्रसीवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः // जइ अब्भत्थेज परं कारणजाए त्ति एतावन्मूलगाथाया व्याख्यातम्, साम्प्रतं करेज्ज से कोइ त्ति अस्य गाथाऽवयवस्यावयवार्थं प्रतिपादयति, अत्रान्यकरणसम्भवे कारणप्रतिपादनायाह नि०- अहवाऽवि विणासेंतं अब्भत्थेतं च अण्ण दवणं / अण्णो कोइ भणेजा तं साहुं णिज्जरट्ठीओ॥६७२॥ तत्र अहवावि विणासेंतं ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यः-विनाशयन्तमपि चिकीर्षितं कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वा अभिलषितकार्यकरणाय कञ्चन अन्यं साधुंदृष्ट्रा किमित्याहअन्यः तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः॥ किमित्याह नि०- अहयं तुम्भं एयं करेमि कजंतु इच्छकारेणं / तत्थऽविसो इच्छं से करेइ मज्जायमूलियं // 673 // 00 संभवे कारणं प्रतिपादयन्नाह प्र० / 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्तिः 671-673 अनिगूहितबलवीर्येऽज्ञे व्यापृते, विनाशे तत्कुलर्वति, ज्ञानवैयावृत्त्यादिकारणान्तरे इच्छाकारः। // 454 //

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498