Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 438 // नि०- छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ अद्भुट्ठहिँ सह खंडियसएहिं // 625 // पूर्ववत् / समाप्तः सप्तमो गणधरः। नि०-ते पव्वइएसोउं अकंपिओ आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि॥६२६॥ पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् / नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 627 // सपातनिका पूर्ववदेव। नि०- किं मन्ने नेरइया अत्थि न अत्थित्ति संसओ तुझं / वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो॥६२८॥ नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि- नारको वै एष जायते, यः शूद्रान्नमश्नाति त्यादि, एष ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, नह वै प्रेत्य नरके नारकाः सन्ती त्यादि, गतार्थम्, युक्तय एवोच्यन्ते- तत्राकम्पिकाभिप्रायमाह-सौम्य! त्वमित्थं मन्यसे- देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति?, प्रयोगश्च-न सन्ति नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थंपूर्वपक्षमाशङ्कय भगवानेवाह-सौम्य! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुम-2 समर्थाः, भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणांप्रत्यक्षा एव, तेषांसकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात्, न चाशेषपदार्थविदः साक्षा 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 625-628 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसशया:, परिवार:, अमर्ष:, वंदपदार्थ दीक्षा। // 438 //

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498