Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 465
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 443 / / पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः?, तस्यात्मनोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः- तत्र विज्ञानघने त्यादीनां पूर्ववद्वाच्यम्, न च भूतसमुदायधर्मश्चैतन्यम्, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्यसंशयात्, न च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यम्, चलनादिचेष्टानिमित्तत्वात्, इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टम्, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्ततिसमालिङ्गितत्वात् उत्पादव्ययध्रौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्वात्रानभ्युपगमात् इति। नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं // 637 // पूर्ववत् // दशमो गणधरः समाप्त:॥ नि०- ते पव्वइएसोउं पभासो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 638 // पूर्ववन्नवरं प्रभासः आगच्छतीति। नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 639 // सपातनिका व्याख्या पूर्ववदेव। 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 637-639 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशया:, परिवारः अमर्ष: वेदपदार्थ दीक्षा // 443 //

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498