Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 455
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 433 // तथा पशवो- गवादयः पशुत्वमेवेत्यमूनि भवान्तरसादृश्याभिधायकानि, तथा शृगालो वै एष इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति तेऽभिप्रायो, यतो न शालिबीजाद्गोधूमाङ्करप्रसूतिः इति, तत्र वेदपदानामयमर्थः- पुरुषः खल्विह जन्मनि स्वभावमाईवार्जवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्धा मृतः सन् रुषत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभवे मायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बद्धवा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोगतः इति, कर्मसापेक्षो जीवानां गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसादृश्यस्यापि दर्शनात्, तद्यथा- शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात् तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाङ्करबीजं सौम्य! सात्मकं कर्म, तच्च तिर्यग्नरनारकामराद्यायुष्कभेदभिन्नत्वात् चित्रमेव, अतः कारणवैचित्र्यादेव ार्यवैचित्र्यमिति, वस्तुस्थित्या तु सौम्य! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसमानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात्, नापिसर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नोन सर्वथा समानोऽसमानोवा, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात्। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं।सो समणो पव्वइओ पंचहिँ सह खंडियसएहिं॥६१७॥ पूर्ववत् // इति पञ्चमो गणधरः समाप्तः।। नि०- ते पव्वइए सोउं मंडिओ आगच्छइ जिणसगासं। वच्चामिण वंदामी वंदित्ता पन्जुवासामि // 618 // ०.३उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 617-618 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूतताहश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, वेदपदार्थः, दीक्षा। // 433 //

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498