Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 450
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 428 // तौ इन्द्रभूतिअग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशम्, उभयनिष्क्रमणाकर्णनादपेताभिमानः सञ्जातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तम्, तथा वन्दित्वा पर्युपासयामि इति गाथार्थः // 606 // इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्द्य च भगवन्तं तदग्रतस्तस्थौ, अत्रान्तरे नि०-आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं।णामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 607 // पूर्ववत् // इत्थमपि संलप्तो हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितः नि०- तज्जीवतस्सरीरंति संसओणविय पुच्छसे किंचि। वेयपयाण य अत्थंण जाणसी तेसिमो अत्थो॥६०८॥ सजीवः तदेव शरीरमिति, एवंसंशयस्तव,नापिच पृच्छसि किञ्चित् विदिताशेषतत्त्वम्, अयंस संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, वेदपदानां चार्थं न जानासि, तेषां तव संशयनिबन्धनानामयमों- वक्ष्यमाणलक्षण इति गाथाक्षरार्थः॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि- विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति इत्यादीनि, तथा सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मानः इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-विज्ञानघने त्यादीनां पूर्ववत् व्याख्या, नवरं न प्रेत्य सज्ञा अस्ति- न देहात्मनः भेदसज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, सत्येन लभ्य इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति, अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेौरतादिवदिति, तथा प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थं न जानासि, 0 बहुलमेतन्निदर्शनमित्युक्तेश्चौरादिकोऽयं ज्ञेयो, यद्वा पर्युपादासेर्घअन्तात्कृगो नाम इति णिचि रूपमेतत्, पर्युपासे इति क्वचिदस्त्यपि / 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 607-608 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः वेदपदार्थ: दीक्षा // 428 //

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498