Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 443
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 421 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। गणधरा इति, तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति- उपरितनानां चतुर्णां गण-धराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः॥ 597 // उक्तमानुषङ्गिकम्, प्रकृतं उच्यते- ते हि देवाः तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष / चक्रे, प्रवादश्च सञ्जातः- सर्वज्ञोऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञप्रवादोऽ-मर्षाध्मातः नियुक्तिः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याह 598-599 देवघोषः, नि०-सोऊण कीरमाणीं महिमं देवेहि जिणवरिंदस्स / अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति // 598 // (११)ऽऽगमः 8 श्रुत्वा च क्रियमाणाम्, दृष्ट्वा वा पाठान्तरम्, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे एइ त्ति आगच्छति भगवत्समीपम् अहम्माणि त्ति अहमेव विद्वान् इति मानोऽस्य इति अहंमानी, अमर्षितः अमर्षयुक्तः, अमर्षो- मत्सरविशेषः, मयि सति देव-नारककोऽन्यः सर्वज्ञः? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह- इन्द्रभूतिः, इति गाथार्थः ॥५९८॥स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं त्रिदशासुरनरेश्वरपरिवृतं दृष्ट्वा साशङ्कः।। तदनतस्तस्थौ, अत्रान्तरे नि०-आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / णामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 599 // आभाषितश्च संलप्तश्च, केन?- जिनेन, किंविशिष्टेन?- जाति:- प्रसूतिः जरा- वयोहानिलक्षणा मरणं- दशविधप्राण // 421 // वियोगरूपं एभिर्विप्रमुक्तस्तेन, कथं?- नाम्ना च हे इन्द्रभूते! गोत्रेण च हे गौतम! किंविशिष्टेन जिनेन इत्याह- सर्वज्ञेन सर्वदर्शिना। आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्यम्, न, नयवादपरिकल्पितजात्यादि तजीव-भूततादृश-बन्ध पुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, वेदपदार्थः, दीक्षा।

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498