Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 445
________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 423 // 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। जीव-कर्म सम्बन्धस्मृतिमुखेन तत्प्रवर्त्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात्, नापि सामान्यतोदृष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, दृष्टान्तेऽपि तस्याध्यक्षतोऽग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात्, तथा च- घटे घटशब्दप्रयोगोपलब्धावुत्तरत्र घटध्वनिश्रवणात् (ग्रन्था० 6000) अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो दृष्टो यमात्मशब्दात् / / नियुक्ति: 600 प्रतिपद्येमहि इति, किंच- आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात्, तथा च- एतावानेव पुरुषो, यावानिन्द्रिय- देवघोषः, गणधरा गोचरः / भद्रे! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः // 1 // इत्यागमः, तथा न रूपं भिक्षवः पुद्गल इत्याद्यपरः, पुद्गले रूपं निषिध्यते, (११)ऽऽगमः अमूर्त आत्मा इत्यर्थः, तथा अकर्ता निर्गुणो भोक्ता इत्यादिश्चान्यः, तथा स वै अयमात्मा ज्ञानमय इत्याद्यपर इति, एते च सर्व तज्जीव-भूतएव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत्, देव-नारकअतो न विद्यः- किमस्ति नास्ति?, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थं न जानासि, चशब्दात् युक्तिं हृदयं च, निर्वाणतेषामेकवाक्यतायामयमर्थः- विज्ञानघन एवे ति ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः, संशयाः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञानघनः, एवशब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानघन एव, परिवारः, अमर्षः, एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथञ्चिद्भूत्वा इति हृदयम्, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म वेदपदार्थः, एव विज्ञानम्, तदभावे मुक्त्यवस्थायां भावात्, तद्भावेऽपि मृतशरीरादावभावात्, न च वाच्यं- घटसत्तायामपि नवतानिवृत्ती शरीरभावेऽपि चैतन्य निवृत्ते: नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायोभयरूपत्वे सति सर्वथा नवताऽनिवृत्तेः, न च इत्थं देहाच्चैतन्यस्यानिवृत्तिः, तथा श्रुतावप्युक्तं- अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि तादृश-बन्ध पुण्य-परलोक दीक्षा। // 423 //

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498