SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 406 // नि०-भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य ।वेमाणिया यमणुया पयाहिणं जंच निस्साए॥५६०॥ भवनपतयः ज्योतिष्का बोद्धव्या व्यन्तरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तरपश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः। किं?- पयाहिणं प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति // अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वास्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितम्, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति, देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन / जंच निस्साए त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः॥५६०॥साम्प्रतमभिहितमेवार्थं संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकार: भा०-संजयवेमाणित्थी संजय (इ) पुव्वेण पविसिउंवीरं / काउंपयाहिणं पुव्वदक्खिणे ठंति दिसिभागे // 116 // संयता वैमानिकस्त्रियः संयत्यः पूर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः॥ भा०- जोइसियभवणवंतरदेवीओदक्खिणेण पविसंति / चिटुंति दक्खिणावरदिसिंमि तिगुणं जिणं काउं॥११७॥ ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुणं जिनं कृत्वा इति गाथार्थः॥ भा०- अवरेण भवणवासी वंतरजोइससुरा य अइगंतुं / अवरुत्तरदिसिभागे ठंति जिणं तो नमंसित्ता // 118 // अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम्, अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः॥ भा०-समहिंदा कप्पसुरा राया णरणारिओ उदीणेणं / पविसित्ता पुव्वुत्तरदिसीऍ चिटुंति पंजलिआ॥११९॥ 0.3 उपोद्घातनियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्ति:५६० अवृत्तपूर्व महर्द्धिकागमे वासमवसरणरचना, प्राकारादि विधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। भाष्यः 116-119 // 406 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy