________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 405 // माह नि०-जे ते देवेहिँ कया तिदिसिं पडिरूवगा जिणवरस्स / तेसिपि तप्पभावा तयाणुरूवं हवइरूवं // 557 // यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि तत्प्रभावात् तीर्थकरप्रभावात् तदनुरूपं तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः / / 557 // नि०-तित्थाइसेससंजय देवीवेमाणियाण समणीओ।भवणवइवाणमंतर जोइसियाणंच देवीओ॥५५८॥ तीर्थं गणधरस्तस्मिन् स्थिते सति अतिसेससंजय त्ति अतिशयिनः संयताः, तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः॥५५८॥ अवयवार्थप्रतिपादनाय आह नि०-केवलिणो तिउण जिणं तित्थपणामंच मग्गओ तस्स / मणमादीविणमंता वयंति सट्ठाणसट्ठाणं // 559 // केवलिनः त्रिगुणं त्रिःप्रदक्षिणीकृत्य जिनं तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः तस्य तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, मणमाईवि नमंता वयंति सट्ठाणसट्ठाणं ति मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध तीर्थं केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति / आदिशब्दानिरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनः पर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमंभवनपतिदेव्यः ततोज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्यायज्ञान्यादयोऽपिनमन्तो व्रजन्ति स्वस्थानंस्वस्थानमिति गाथार्थः॥५५९॥ 0.3 उपोद्घातनियुक्तिः, | 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। | नियुक्तिः 557-559 अवृत्तपूर्व महर्टिकागमे वासमव| सरणरचना, प्राकारादिविधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 405 //