________________
ते
श्री बाचाराङ्ग स्त्रदीपिका १०५
न दोहे ' इत्यादि-साकखेदज्ञता आवेदिता प्रतिष्ठानो नरकस्तत्र
पादनम्।
प्राहिका । यतः-ओएति-ओजः-एकोऽशेषमलकलङ्काकरहितः । किश्च-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा उ०६ यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो'-निपुणो, यदिवा प्रतिष्ठानो नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो-लोकनाडि- सिद्धपर्यन्तपरिज्ञाता, तेन च समस्तलोकालोकखेदज्ञता आवेदिता भवति सर्वस्वरनिवर्त्तनं च । येनाभिप्रायेणोक्तवान् तमभिप्रायमा-18 भगवतो विष्कुर्वन्नाह-' से न दीहे' इत्यादि-स परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः, संस्थान
गुणप्रतिमाश्रित्य-न दी? न इस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमंडलोऽपि । वर्णमाश्रित्य-न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो, गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धोऽपि, रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुरश्च, स्पर्शमाश्रित्य न कर्कशो न मृदुन गुरुन लघुश्च न शीतो नोष्णो न स्निग्धो न रूक्षोऽ पि, न कायवान् तथा न रुहः कर्मवीजाभावादपुर्नभव इत्यर्थः । न विद्यते सङ्गोऽमृतत्वाद् यस्य स तथा । न स्त्री न पुरुषो नान्यथे 'ति-न नपुंसकः । केवलं सर्वैरात्मप्रदेशैः परिः समन्ताद् विशेषतो जानातीति परिज्ञः ज्ञानदर्शनयुक्त इत्यर्थः। ' उवमा न विजइ'-उपमीयते सादृश्यात् परिच्छिद्यते यया सोपमा- तुल्यता, सा मुक्तात्मनो न विद्यते लोकातिगत्वात्, कुतस्तेषामुपमा । कुत एतदिति चेदाह-अरूवी- तेषां मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किश्च-'अपयस्स' ति-न विद्यते पदमवस्थाविशेषो यस्य सोऽपदः, तस्य पदं-अभिधानं तच नास्ति, वाच्यविशेषाभाव इत्येतदर्शयितुमाह
से न सरे न रूवे न गंधे न रसे न फासे इच्चेवत्ति बेमि ॥ लोगसारस्स छट्ठो उद्देसो समत्तो। 'से न सदे' इत्यादि-सो न शब्दरूपगन्धस्पर्शरूपः, एतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच नापरः कश्चिद्
RSHASKAR
१५८ ॥