Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 211
________________ २०७॥ MAHARASHTRA से भिक्खु ' इत्यादि-स पूर्वव्यावर्णितो भिक्षुः साध्वी' वाऽशनादिकमाहारं उद्गमोत्पादनैषणाशुद्धं ग्रहणैषणाशुद्धं च गृहीतं सदऽङ्गारिताभिधूमितवर्जमाहारयेत् । तयोश्चाङ्गारधूमितयोः रागद्वेषौ निमित्तं, तयोरपि सरसनिरसोपलब्धिनिमित्तमिति कृत्वा तत्परिहारं दर्शयति-स भिक्षुस्तमाहारमाहारयन् नो वामतो हनुतो दक्षिणां हर्नु रसोपलब्धये संचारयेत् आस्वादयनशनादिकम् । नाऽपि दक्षिणातो वामां संचारयेदास्वादयन् , स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ परिहरन्नास्वादयेदिति । ‘से अणासाय 'ति-तथा कुतश्चिनिमित्ताद् इन्वन्तरं संचारयन्नपि अनास्वादयन् संचारयेत् । शेषं गतार्थः। तस्य चान्तप्रान्ताशितया शरीरपरित्यागबुद्धिः स्यादित्याह____" जस्स गं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुब्वेण परिवहित्तए, से अणुपुग्वेणं आहार संवट्टिजा, अणुपुत्वेणं आहार संवट्टित्ता कसाए पयणुए किच्चा समाहियचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे" ___'जस्सण ' मित्यादि- यस्यैकत्वमावितस्य मिक्षोराहारोपकरणलापवं गतस्य एवमिति-वक्ष्यमाणोऽत्राभिप्रायो भवति । KI'से गिलामि च खलु' इत्यादि-से इति-सोऽहं खलु निश्चित समये संयमावसरे ग्लायामि, रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतोऽनशनं मे सुखकारि मवति । अत इदं शरीरमानुपूर्ध्या यथेष्टकालावश्यकक्रियारूपया परिवोढुं नालंअहं क्रियासु न्यापारयितुं न समर्थः। अस्मिन्नवसरे, 'अणुपुत्रेण आहारं संवट्टिजा इत्यादि '-स भिक्षुरानुपूर्ध्या चतुर्थषष्ठादिकया आहारं संवर्जयेत् संक्षिपेत् , न पुनदशसंवत्सरसंलेखनानुपूर्वी इह गृह्यते, तावन्मात्रकालस्थितेरभावात् । द्रव्यसंलेखनया संलिख्य यदपरं कुर्याचदाह- षष्ठाष्टमादिकतयाऽऽनुपूाऽऽहारं संवर्यं कषायान् प्रवनन् कृत्वा RASHASHIKARAKSHASHRSS बलक्षये सति शरीरत्यागमिच्छो क्रमेणाहारकपादयः सूक्ष्मीकर्चव्या:।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244