Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तत्र बज्रभूमौ घोराः परीषहाः
सोदेति | दर्शनम् ।
भी पता भगवति विरूपमाचरन्ति । कुर्कुराः श्वानस्ते च जिहिंसुरुपरि निपेतुः। 'अप्पजणे 'ति-तत्राल्पजनो निवारयति शुनो बाचाराङ्ग- लूषकान् दशतो निवारयति । अपि तु चण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति । कथं तु नामैनं श्रमणं कुर्कुराः स्त्रदीपिका श्वानो दशन्तु ।। तत्र चैवंविधे जनपदे भगवान् षण्मासावधि कालं स्थितवानिति । किश्च- । अ०९ “एलिक्सए जणा भुजो बहवे वजभूमिए फरुसासी । ललुि गहाय नालियं समणा तत्थ य विहरिंसु ॥ ८५ ॥ एवंपि तत्थ
विहरन्ता पुट्टपुव्वा अहेसि सुणिएहिं । संलुञ्चमाणा सुणएहिं दुच्चराणि तत्थ लाढेहिं ॥ ८६ ॥ निहाय दण्डं पाणेहिं तं कायं वोसि॥२३४॥
रिजमणगारे । अह गामकण्टए भगवन्ते अहियासए अमिसमिचा ।। ८७ ॥ नागो संगामसीसे वा तारए तत्थ से महावीरे । एवं पि तत्थ लाढेहिं अलद्धपुव्वोवि एगया गामो ॥ ८८ ॥
'एलिक्खए 'ति-ईदृशः-पूर्वोक्तस्वरूपस्तत्रत्यजनः, तथालक्षणं जनपदं भगवान् पौनःपुन्येन विहृतवान् । तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो-रूक्षभोजिनः, रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति । तत्रान्ये श्रमणाः-शाक्यादयो यष्टिं देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहः । 'एवंपि' त्ति-एवमपि यष्ट्यादिकया सामग्या श्रमणा विहरन्तः स्पृष्टपूर्वा-आरब्धपूर्वाः श्वभिरासन् ! तथा संलुच्यमाना इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन् दुर्निवारत्वात्तेषां, 'तत्र'-तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि ग्रामादीनीति । तदेवम्भूतेष्वपि लाढेषु भगवान् कथं विहृतवान् ? इति दर्शयति-'निहाय दंडं 'ति-प्राणिषु दण्डः मनोवाक्कायादिकः प्राणिदण्डस्तं निधाय-त्यक्का, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्'-नीचजनरूक्षालापानपि भगवांस्तां
RENOGRECICK-CACA64
AMACHAROSAROKAR
P॥२३४॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244