Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री
याचाराङ्गसूत्रदीपिका
अ० ९ ।। २३८ ।।
'एयाणि'त्ति - एतानि त्रीणि प्रतिसेवते - व्यस्तानि समस्तानि च यथालाभं प्रतिसेवते । कियन्तं कालं १, 'अट्ठमासे' चिअष्टौ मासान् ऋतुबद्धकान् आत्मानमयापयत्-तपस्सु वर्त्तितवान् । तथा पानकमप्यर्द्धमासं अथवा मासं भगवान्न पीतवान् । ' अपि साहिये 'ति - मासद्वयमपि साधिकं, अथवा षडपि मासान् साधिकान् भगवान् पानकमपीत्वा, रात्रोपुरात्रंअहर्निशं विहृतवान् । अप्रतिज्ञः - पानाभ्युपगमरहितः । ' अण्णगिलाई 'ति - पर्युपितं तदेकदा भुक्तवान् । 'छट्ठे 'ति - षष्टेनैकदा भुंक्ते, अथवाऽष्टमेन, दशमेन द्वादशेन एकदा-कदाचिद् भुक्तवान् । ' पेह 'त्ति-शरीरसमाधिं प्रेक्षमाणः, न पुनर्भगवतः कदाचिद् दौर्मनस्यमुत्पद्यते । तत्राऽप्रतिज्ञः प्रतिज्ञारहितः । तत्र ज्ञात्वा स महावीरः 'नोवि य 'त्ति - नैवाऽपि च पापकर्म्म स्वयमकार्षीत्, न चान्यैरचीकरत्, न च क्रियमाणमपरैरनुज्ञातवान् । किञ्च
" गामं पविसे नगरं वा घासमेसे कडं परत्थाए । सुविसुद्ध मेसिया भगवं आयतजोगयाए सेवित्था ॥ १०३ ॥ अदु वायसा दिगिछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ॥ १०४ ॥ अदुवा माहणं च समणा वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारिं वा कुक्कुरं वावि विट्टियं पुरओ ॥ १०५ ॥ वित्तिच्छेयं वज्जन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परकमे भगवं अहिंसमाणो घास मेसित्था ॥ १०६ ॥
35
' गाम 'मित्यादि - ग्रामं वा नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयत् । परार्थाय कृतं तमप्युद्गमदोषरहितं, सुविशुद्धंउत्पादनादोषरहितं तथैषणादोषपरिहारेणैपित्वा-अन्वेष्य भगवान् आयतः - संयतो योगो मनोवाक्कायलक्षणः आयतयोगस्वस्य भाव आयतयोगता तथा । ज्ञानचतुष्टयेन सम्यग् योगप्रणिधानं कृत्वा शुद्धाहारं गवेषितवानित्यर्थः । ' अदु वायस' चि-अथ भिक्षां पर्यटतो भगवतः पथि वायसाः - काका: 'दिगिछत्ति' - बुभुक्षा तथा आर्त्ताः, ये चान्ये रसैषिणः- पानार्थिनः
उ० ४
गोचरचर्यागां सर्वेषा
मन्तरायवर्जन मिति।
॥॥ २३८ ॥ 81

Page Navigation
1 ... 240 241 242 243 244