Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
+CE
उ०४
निःसार
कपोतपारापतचिटकादयः सवाः, ग्रासेषणार्थ-अन्वेषणार्थ वा ये तिष्ठन्ति, सततमनवरतं निपतितान् भूमौ प्रेक्ष्य तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्द मन्दं आहारार्थी पराक्रमते-गच्छत इत्यर्थः । 'अदु माहणं 'ति-अथ ब्राह्मणं लाभार्थमुपस्थित दृष्ट्वा, तथा श्रमण-शाक्याजीयकादिनिर्ग्रन्थाऽन्यतरं, ग्रामपिण्डोलको द्रमका, ' अतिहिं 'ति-अतिथिं वा आगन्तुकं श्वपाक-चाण्डालं मार्जार कुकूर श्वानं विविधं स्थितं पुरतो-अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुःप्रणिधान वर्जयन् मन्दं मनाक् तेषां त्रासमकुर्वन् भगवान पराक्रमते । अन्यांश्च कुन्थुकादीन् जन्तून् अहिंसन ग्रासमन्वेपितवानिति । किश्च
“ अवि सूइयं वा सुकं वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्ध दविए ॥ १०७ ॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उहुं अहे तिरियं च पेहमाणे समाहिमपडिन्ने ॥ १०८ ॥ अकसाई विगयगेही य सद्दरूवेसु अमुच्छिए झाई । छउमत्थोऽवि परक्कममाणो न पमाय सइंपि कुम्वित्था ॥ १०९ ॥ सयमेव अभिसमागम्म आयतजोगमा. यसोहीए । अभिनिव्वुडे अमाइल्ले आवकहं भगवं समियासी ॥ ११० ॥ एस विही अणु० रीयइ ।। १११ ॥ ति वेमि।" ९-४ पढमो सुयक्खंधो सम्मत्तो ।। मूलसूत्रग्रन्थानं ८०० शुभं भवतु ।।
'अवि सूहयत्ति'- अपि निश्चितं शूचिक-दध्याद्योदनं च, शुष्कं वा, शीतलपिण्डं वा, 'पुराण "ति-जीर्णकुल्माष * वा, 'बुक्कसं 'ति-रसरहितं पुलाकं यवनिष्पावादि, तदेवम्भृतं पिण्डमवाप्य रागद्वेपरहितः, 'लद्धे 'ति-लब्ध पर्याप्त शोमने
वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽत्मानमाहारदातारं वा जुगुप्सते, किन्तु द्रविक एव । 'अविझाइ 'त्तितस्मिन्नाहारे लब्धेऽलब्धे वा ध्यायति स महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते । 'आसनस्थो'-उत्कटुकगोदोहि| कावीरासनाद्यवस्थोऽकौत्कुचः सन्-एखविकारादिरहितो ध्यानं धर्मशुक्लयोरन्यतरदारोहति । किं ध्येयं ध्यायति ? इत्याह-
शीतादिपिण्डभोक्ता | भगवान् विशुद्धध्यान नवांश्च ।
॥ २३९ :

Page Navigation
1 ... 241 242 243 244