Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री
।
C
थाचाराङ्ग पत्रदीपिका
ब०९ ॥ २२८॥
उ०२ शय्यासनविषयक आचार: चीर्णः।
HACAE%A5%
प्रसार्य बाहुं पराक्रमते, न तु पुनः शीतार्दितः सन् संकोचयति । नापि स्कन्धेऽवलम्ब्य तिष्ठतीति । 'एस विधी'-एष चर्याविधिरनन्तरोक्तत्वादऽनुक्रान्तो अनुचीर्णो माहनेन श्रीवीरस्वामिना । किम्भूतेन १, मतिमता-विदितवेद्येन .' बहुशो'-- अनेकप्रकारमप्रतिज्ञेनाऽनिदानेन भगवता ऐश्वर्यादिगुणोपेतेन । एवं भगवदनुचीर्णेन मार्गेणाऽन्ये मुमुक्षवोऽशेषकर्मक्षयाय 8 साधचो रीयंते-गच्छन्ति । इत्युपधानश्रुताध्ययनस्य प्रथमोदेशप्रदीपिका ॥
साम्प्रतं द्वितीय आरभ्यते, अस्यादिमं सूत्रम्--
". चरियासणाई सिज्जाओ एगइयाओ जाओ बुइयाओ। आइक्ख दाई सयणासणाई जाइं सेवित्था से महावीरे ॥६५॥ आवेसणसमापवासु पणियसालासु एगया वासो । अदुवा पलियठाणेसु पलालपुलेसु यगया वासो ॥६६॥ आपन्तारे आरामागारे वह य नगरे व एगया वासो। सुसाणे सुन्नगारे वा रूक्खमूले व एगया वासो ॥ ६७ ॥ एएदि मुणी सयहिं समणे आसि पतेरसवासे । राई दिवंषि जयमाणे अपमत्ते समाहिए झाइ ॥ ६८॥"
'चरियासणाई 'ति-चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि, तानि शयनासनानि-1 शय्याफलकादीनि आचक्ष्व, सुधर्मस्वामी जम्बूनाम्नाऽभिहितो, यानि सेवितवान् महावीरो-वर्द्धमानस्वामीति । 'आवेसण' इत्यादि-भगवत आहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याभिग्रह आसीत् । नवरं यत्रैव चरमपौरुषी भवति, तत्रैवानुज्ञाप्य स्थितवान् आवेशनं-शून्यगृहं, ' सभा' ग्रामनगरादीनां 'प्रपा'-उदकस्थानं, आवेशनसमाप्रपासु, तथा 'पण्यशालासु' क्रयाणकहद्वेषु 'एकदा' कदाचिद्वासो भगवतः। 'अदुव 'चि-अथवा 'पलिय'ति-पालियं-लोहकरादि
RKARICARRORECASS
॥ २२८॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244