Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आचारागपत्रदीपिका ब०९
प्रकृष्टोपसर्गेऽपि ध्यान
मग्नता | प्रदर्शनम् ।
॥ २३०
तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मानिष्क्रम्यैकदा शीतकालराव्यादौ पहिश्चङ्कम्य मुहूर्तमा निद्राप्रमादापनयनाथ ध्याने स्थितवानिति । 'सयणेहिं 'ति-शय्यते स्थीयते उत्कटुकासनादिमिर्येष्विति शयनानि-आश्रयस्थानानि तेषु तस्य भगवत उपसर्गाः, 'भीमाः' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतया । तथा संसर्पन्तीति संसर्पकाः शून्यगृहादावहिनकुलादयः प्राणिन उपचरन्ति, उप सामीप्येन मांसादिकमश्नन्ति । अथवा श्मशानादौ पक्षिणो गृद्धादय उपचरन्ति । अथवा कुत्सितं चरतीति कुचराः चौरपारदारिकादयः, ते च क्वचिच्छून्यगृहादावुपचरन्ति-उपसर्गयन्ति । तथा ग्रामरक्षकादयश्च त्रिकचत्वरादिव्यवस्थित शक्तिकुन्तादिहस्ता उपचरन्तीति । अथ ग्रामिका ग्रामधर्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्री रूपदर्शनादध्युपपन्ना उपसर्गयेव पुरुषो वेति । किश्च
" इहलोइयाइं परलोइयाई भीमाई अणेगरूवाई। अवि सुभिदुन्भिगन्धाइं सहाई अणेगरूवाइं ॥ ७३ ॥ अहियासए सया समिए फासाई विरूवरूवाई। अरई रई अभिभूय रीयइ माहणे अबहुवाई ॥ ७४ ॥ स जणेहिं तत्थ पुच्छिसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने ।। ७५ ॥ अयमंतरंसि को इत्थ ? अमंसित्ति भिक्खु आहट्ट । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ।। ७६ ॥" ___ 'इहलोइयाई "ति- इहलोके भवा ऐहलौकिकाः मनुष्यकृताः, के ते ?, स्पर्श दुःखविशेषाः। दिव्याः तैरश्चाश्च पारलौकिकाः, तान् उपसर्गापादितान् दुःखविशेषान अध्यासयति-अधिसहते । किम्भूताः १, मीमा भयानकाः । अनेकरूपा:सुरभिगन्धाः स्रक्चन्दनादयः, दुर्गन्धाः कुथितकलेवरादयः, शब्दाश्चानेकरूपा वेणुवीणामृदङ्गादिजनितास्तान् अध्या-
F
SARKASA
२३०॥

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244