Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ २२७ ॥
पापकं पापोपादानकारणं तद् भगवानऽकुर्व्वन् विकटं प्राशुकमुपभुक्तवान् । किश्चनो सेवते च ' परवखं ' - प्रधानं वस्त्रं, परस्य वा वस्त्रं, परवखम् । परपात्रेणासौ नोपभुंक्ते । परिवर्ज्य अपमानं अवगणय्य गच्छति असावाहाराय ' संखडि 'चिसंखण्ड्यन्ते प्राणिनोऽस्यामिति संखडिमाहारपाकस्थानभूतां, अशरणाय शरणमनालम्बमानोऽदीनमनस्कः कल्प इति कृत्वा परीषहविजयार्थे गच्छतीति । 'मायण्णे 'ति -आहारस्य मात्रां जानातीति मात्रज्ञः अशनपानस्य । तथा नानुगृद्धो रसेषु । भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत् किं पुनः प्रब्रजितस्य ? । पुनः किम्भूतः १, 'अपडिण्णे - अप्रतिज्ञः - यथा रसेषु अप्रतिज्ञो, यथा मयाऽद्य सिंहकेसरा मोदका एव ग्राह्मा इत्येवंरूपाप्रतिज्ञारहितः, अन्यत्र कुल्मापादौ सप्रतिज्ञ एव । तथा ' अच्छिंपि ' - अक्ष्यपि रजःकणाद्यपनयनाय नो प्रमार्जयेत् । नापि गात्रं मुनिरसौ कण्डूयते काष्ठादिना, कण्डव्यपनोदं न विधच इति । किश्व-
"अप्पं तिरियं पेद्दार अपि पिट्टिओ पेहाए । अप्पं बुइपऽपडिभाणी पंथपेहि चरे जयमाणे ॥ ६२ ॥ सिसिरंसि अद्धपडिबन्ने तं वोसिरिज वत्थमणगारे । पसारितु बाहुं परकमे नो अवलम्बियाण संघमि ॥ ६३ ॥ एस विही अणुक्कन्तो माहणेण मईमया । बहुसो अपरित्रेण भगवया एवं रियंति ॥ ६४ ॥ " उपधानश्रुताध्ययने प्रथम उद्देशकः ॥ ९१ ॥
' अप्पं तिरिय 'मित्यादि - अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यग् तिरश्रीनं गच्छन् प्रेक्ष्यते, अल्पं पृष्ठतः स्थित्वोत्प्रेक्ष्यते, मार्गादि केनचित्पृष्टोऽल्पभाषी सन् मौनेन गच्छत्येव । पथिप्रेक्षी 'चरेद्' गच्छेद् यतमानः, कथम्भूते मार्गे १, अल्पाण्डकेप्राणादिरहिते यत्नवानिति । 'सिसिरंसि 'चि- अर्द्धप्रतिपन्ने शिशिरे सति तदेव देवदृष्यं च व्युत्सृज्याऽनगारो भगवान्
उ० १
मार्गगमन
शीतादि
सहनविष
यकाचार
सूचा ।
।। २२७ ॥

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244