________________
२०७॥
MAHARASHTRA
से भिक्खु ' इत्यादि-स पूर्वव्यावर्णितो भिक्षुः साध्वी' वाऽशनादिकमाहारं उद्गमोत्पादनैषणाशुद्धं ग्रहणैषणाशुद्धं च गृहीतं सदऽङ्गारिताभिधूमितवर्जमाहारयेत् । तयोश्चाङ्गारधूमितयोः रागद्वेषौ निमित्तं, तयोरपि सरसनिरसोपलब्धिनिमित्तमिति कृत्वा तत्परिहारं दर्शयति-स भिक्षुस्तमाहारमाहारयन् नो वामतो हनुतो दक्षिणां हर्नु रसोपलब्धये संचारयेत् आस्वादयनशनादिकम् । नाऽपि दक्षिणातो वामां संचारयेदास्वादयन् , स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ परिहरन्नास्वादयेदिति । ‘से अणासाय 'ति-तथा कुतश्चिनिमित्ताद् इन्वन्तरं संचारयन्नपि अनास्वादयन् संचारयेत् । शेषं गतार्थः। तस्य चान्तप्रान्ताशितया शरीरपरित्यागबुद्धिः स्यादित्याह____" जस्स गं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुब्वेण परिवहित्तए, से अणुपुग्वेणं आहार संवट्टिजा, अणुपुत्वेणं आहार संवट्टित्ता कसाए पयणुए किच्चा समाहियचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे"
___'जस्सण ' मित्यादि- यस्यैकत्वमावितस्य मिक्षोराहारोपकरणलापवं गतस्य एवमिति-वक्ष्यमाणोऽत्राभिप्रायो भवति । KI'से गिलामि च खलु' इत्यादि-से इति-सोऽहं खलु निश्चित समये संयमावसरे ग्लायामि, रूक्षाहारतया तत्समुत्थेन वा
रोगेण पीडितोऽतोऽनशनं मे सुखकारि मवति । अत इदं शरीरमानुपूर्ध्या यथेष्टकालावश्यकक्रियारूपया परिवोढुं नालंअहं क्रियासु न्यापारयितुं न समर्थः। अस्मिन्नवसरे, 'अणुपुत्रेण आहारं संवट्टिजा इत्यादि '-स भिक्षुरानुपूर्ध्या चतुर्थषष्ठादिकया आहारं संवर्जयेत् संक्षिपेत् , न पुनदशसंवत्सरसंलेखनानुपूर्वी इह गृह्यते, तावन्मात्रकालस्थितेरभावात् । द्रव्यसंलेखनया संलिख्य यदपरं कुर्याचदाह- षष्ठाष्टमादिकतयाऽऽनुपूाऽऽहारं संवर्यं कषायान् प्रवनन् कृत्वा
RASHASHIKARAKSHASHRSS
बलक्षये
सति शरीरत्यागमिच्छो क्रमेणाहारकपादयः सूक्ष्मीकर्चव्या:।