________________
श्री
बाचाराङ्गदीपिका
४०८
॥ २०६ ॥
वियं आगममाणे जाव सम्मत्तमेव समभिजाणिवा "
' जे भिक्खु एगेण ' इत्यादि - अर्थस्तु पूर्वोक्तत्वान्न लिखितो मया ।
“जस्स णं भिक्खुस्स एवं भवइ- एगे अहमंसि न मे अस्थि कोइ, न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया "
'जस्सण ' मित्यादि - णं वाक्यालंकारे, यस्य भिक्षोरेवं भवति, तद्यथा - एकोऽहमस्मि - संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति । न चाहं दुःखोपनयनतः कस्यचिद् द्वितीयः, स्वकृतकर्म्म फलेश्वरत्वात्प्राणिनाम् । • एवमसौ साधुरेका किनमेवात्मानं सम्यगभिजानीयात् । नास्त्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं सन्दधानो यद्यद्रोगादिकमुपतापकारणमापद्यते, तत्तदपसरणनिरपेक्षो मयैवैतत् कृतं मयैव सोढव्यम् । इत्यध्यवसायी सम्यगघिसते । कुत इत्याह- ' लाघवियं आगममाणे ' इत्यादि गतार्थ, इह द्वितीयोदेशके उद्गमोत्पादनैवणा प्रतिपादिताआउसंतो समणा अहं तव अट्ठाए असणं ४ इत्यादिना । पञ्चम देश के ग्रहणैषणा प्रतिपादिता - सिया एवं वदंतस्स परो अभिहडं असणं ४ इत्यादिना । ततो प्रासैषणा अवशिष्यते । अतस्तत्प्रतिपादनायाह
" से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे, नो वामाओ हणुयाओ दाहिणं हणुयं संचारिज्जा आसाएमाणे, दाहिणाओ वामं इणुयं नो संचारिया आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं मगवया पवेइयं तमेत्र अभिसमिचा सव्वओ सव्वत्ताए सम्मत्वमेव समविज्ञान "
०६ ग्रासैषणा
स्वरूपम् ।
॥ २०६ ॥