Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ २०९ ॥
न्तरिक्षोदकरहिते, तथा उचिङ्गपनको दकमृत्तिका मर्कटसन्तानरहिते, तदेवम्भूते स्थण्डिले तृणानि संस्तरेत् । स्थण्डिलं प्रत्युपेक्ष्य, एवं रजोहरणादिना प्रमृज्य संस्तीर्य तृणानि उच्चारप्रश्रवणभूमिं च प्रत्युपेक्ष्य, पूर्वाभिमुखः संस्तारकगतः करतलललाटस्पर्शिष्टतजोहरणः कृतसिद्धनमस्कारः आवर्तितपञ्चनमस्कारः । ' एत्थवि समेये ' इत्यादि अपिशब्दादन्यत्रापि समये, इत्वरमपि पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमाद् इङ्गितमरणमुच्यते, पुनरित्वरं साकारं । जिनकल्पिकादेः साकारप्रत्याख्यानस्यान्यस्मिन्नपि कालेऽप्यसम्भवात् । तदेवमिङ्गितमरणं घृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावजीवं चतुर्विधाहारनियमं कुर्यात् । ' तं सच्चं 'ति तदिङ्गितमरणं सर्वोपदेशाच्च सत्यम् । किम्भूतः साधुः १, सत्यवादीसत्यं वदितुं शीलमस्येति सत्यवादी, ओजो-रागद्वेषरहितः तीर्णः संसाराम्बुधिम् । ' कहकहे 'ति - कथमहमिङ्गितमरणप्रतिज्ञां निर्वाहयिष्ये १ इत्येवंरूपा या कथा सा छिन्ना यस्य स छिन्नकथंकथः, दुःकरानुष्ठायी कथंकथी भवति, स तु महापुरुष न व्याकुलतामियात् । स एव आतीतार्थः- आसमन्तात् अतीता - ज्ञाता जीवादयोऽर्था येन स तथा किम्भूतः १ अनातीतः - संसारार्णवपारगामीत्यर्थः । स एवम्भूत इङ्गितमरणं प्रतिपद्यते विधिना । किं कृत्वा ?, ' चिच्च 'चि त्यक्त्वा मिदुरं कार्य, संविधूय परीषहोपसर्गान् । अस्सि विस्संगणियाए 'ति- अस्मिन् सर्वज्ञोपदिष्टे आगमे विश्रभणतया विश्वा सादेतदुक्तार्था विसंवादाध्यवसायेन, भैरवं भयानकं अनुष्ठानं क्लीबैः - कातरैर्दुरनुचरं इङ्गितमरणाख्यं अनुचीर्णवान् अनुष्ठितवान् । ' तत्थावि ' - तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि न केवलं कालपर्यायेणेत्यपिशब्दार्थः ' तस्य 'कालहस्य मिश्रोषसादेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति । आह च- सोऽपि व्यंतिकारक इत्यादि पूर्ववत् ॥
उ० ६ इङ्गितमरणकर्तुः स्वरूपम् ।
॥ २०९ ॥

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244