Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भी
याचाराङ्गसत्रदीपिका ब०९।
॥ २२४॥
स्मरन् गच्छति । उदाराणि अनुकूलप्रतिकूलोपसर्गाणि, 'णायपुत्चे 'ति-शातपुत्रः श्रीवर्द्धमानस्वामी स भगवान् नैतद्दुःखस्मरणाय गच्छति पराक्रमते, यदिवा शरण-गृहं नात्र शरणमस्तीत्यशरण:-संयमस्तस्मै अशरणाय पराक्रमते । तथाहि-किमत्र चित्रं यद् भगवान अमितवलपराक्रमः प्रतिज्ञाकनकाद्रिशिखरारूढः पराक्रमत इति । स भगवानऽप्रवजितोऽपि प्रासुकाहारानुवर्ती आसीत् । श्रूयते च-किल पञ्चत्वमुपगते मातपितरि समाप्तप्रतिज्ञोऽभूत् । ततः प्रविव्रजिषुः ज्ञातिमिरमिहितो, यथा भगवन् मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि । यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो ज्ञातीया नष्टचिताः स्युरित्येवं विचार्य तानुवाच-कियन्तं कालं मयाऽत्र स्थातव्यं, संवत्सरद्वयेनास्माकं शोकापगमो भावीति, मट्टारकोऽपि ओमित्युवाच । किन्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविघाताय भवद्विरुपस्थातव्यं, तैरपि यथाकथञ्चिदयं तिष्ठत्विति मत्वा तैः सर्वैस्तथैव प्रतिपेदे । ततो कथम्भूतो भगवान् इत्याह-'अवि साहिए 'ति-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा अपित्वेत्यर्थः। अपराऽपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तः, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि परिपालितवान् । तथा 'एकत्व'मिति-तत एकत्वमावनामावितान्तःकरणः पिहिता-स्थगितार्जा-क्रोधज्वाला येन स तथा। सोऽपि छबस्थकालेऽमिज्ञातदर्शनः सम्यक्त्वभावनया भावितः शान्त इन्द्रियनोइन्द्रियैः। स एवम्भूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी। किं पुनःप्रव्रज्यायां इत्याह-.. ___"पुढर्षि च आउकायं च तेसकार्य च बाउकार्य च। पणगाइं बीयहरियाई सकार्य र सम्बसो नया ॥५३॥ एयाइं सन्ति
दीवाविलम्बे
सति गृहस्थ. त्वेऽपि प्रासुकाहारादि
REGARKARINASI
RUKONKAN
वर्चनं.
भगवतः।

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244