Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री
आचाराङ्गसूत्रदीपिका
अ० ८
॥ २०४ ॥
*%%
साइजिस्सामि ४, एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियांए से तस्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियंति बेमि " ॥ ८-५ ॥
' जस्स ण ' मित्यादि-यस्य भिक्षोः परिहारविशुद्धिकादिकस्य अयं वक्ष्यमाणः प्रकल्प आचारो भवति । ' अहं खलु ' इत्यादि - चः समुच्चये, खलु वाक्यालङ्कारे । अहं क्रियमाणं वैयावृत्यमपरैः स्वादयिष्यामि अभिलषिष्यामि । किम्भूतोऽहं ? प्रज्ञप्तो वैयावृत्य करणाय अपरैरुक्तोऽभिहितो, यथा तव वैयावृत्यं यथोचितं कुर्म्मः । किम्भूतैरपरैः १, अपरिज्ञतैः - अनुक्तैः । किम्भूतोs, ग्लानो - विकृष्टतपसा कर्त्तव्यताऽशक्तो, वातादिक्षोभेण वा ग्लानः । किम्भूतैरपरैः १ - अग्लानै रुचितकर्त्तव्यसहि ष्णुभिः । केवलं स्थविरा अपि तद्द्वैयावृत्यं कुर्वन्तीति दर्शयति-' अभिकंखे 'त्यादि - निर्जरामभिकांक्ष्य-उद्दिश्य साधम्मिकैः सदृशकल्पिकैरेकसामाचारीस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्यमहं स्वादयिष्यामि । यस्याऽयं भिक्षोः प्रकल्प आचारः । स तमाचारं अनुपालयन् भक्तपरिज्ञयाऽपि जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यात् । तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातम् । साम्प्रतं स एवाऽपरस्य कुर्यादिति दर्शयति- ' अहं वावि' इत्यादि - अहं च पुनरपरिज्ञप्तोऽनभिहितः प्रज्ञप्तस्यवैयावृत्य करणायाऽभिहितस्याऽग्लानो ग्लानस्य निर्जरामभिकांक्ष्य साधम्मिकस्य वैयावृत्यं कुर्याम् । किमर्थ ?, करणायतदुपकारायेत्यर्थः । तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जद्यात्, न पुनः प्रतिज्ञामितिसूत्रभावार्थः । इदानीं प्रतिज्ञाविशेषद्वारेण चतुभंगिकामाह-' आहट्टु ' इत्यादि - एकः कश्विदेवम्भूतां प्रतिज्ञां गृण्हाति-ग्लानस्य साधम्भिकस्याहारादिकमन्वेपिष्ये, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि तव उपभोक्ष्ये, एवंभूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्र्यं
उ० ५
परिहारवि
शुद्धिकादिसाधोवँया
वृश्य विषयसामाचारीप्रदर्शनमिति ।
॥। २०४ ॥

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244