SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्री आचाराङ्गसूत्रदीपिका अ० ८ ॥ २०४ ॥ *%% साइजिस्सामि ४, एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियांए से तस्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियंति बेमि " ॥ ८-५ ॥ ' जस्स ण ' मित्यादि-यस्य भिक्षोः परिहारविशुद्धिकादिकस्य अयं वक्ष्यमाणः प्रकल्प आचारो भवति । ' अहं खलु ' इत्यादि - चः समुच्चये, खलु वाक्यालङ्कारे । अहं क्रियमाणं वैयावृत्यमपरैः स्वादयिष्यामि अभिलषिष्यामि । किम्भूतोऽहं ? प्रज्ञप्तो वैयावृत्य करणाय अपरैरुक्तोऽभिहितो, यथा तव वैयावृत्यं यथोचितं कुर्म्मः । किम्भूतैरपरैः १, अपरिज्ञतैः - अनुक्तैः । किम्भूतोs, ग्लानो - विकृष्टतपसा कर्त्तव्यताऽशक्तो, वातादिक्षोभेण वा ग्लानः । किम्भूतैरपरैः १ - अग्लानै रुचितकर्त्तव्यसहि ष्णुभिः । केवलं स्थविरा अपि तद्द्वैयावृत्यं कुर्वन्तीति दर्शयति-' अभिकंखे 'त्यादि - निर्जरामभिकांक्ष्य-उद्दिश्य साधम्मिकैः सदृशकल्पिकैरेकसामाचारीस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्यमहं स्वादयिष्यामि । यस्याऽयं भिक्षोः प्रकल्प आचारः । स तमाचारं अनुपालयन् भक्तपरिज्ञयाऽपि जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यात् । तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातम् । साम्प्रतं स एवाऽपरस्य कुर्यादिति दर्शयति- ' अहं वावि' इत्यादि - अहं च पुनरपरिज्ञप्तोऽनभिहितः प्रज्ञप्तस्यवैयावृत्य करणायाऽभिहितस्याऽग्लानो ग्लानस्य निर्जरामभिकांक्ष्य साधम्मिकस्य वैयावृत्यं कुर्याम् । किमर्थ ?, करणायतदुपकारायेत्यर्थः । तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जद्यात्, न पुनः प्रतिज्ञामितिसूत्रभावार्थः । इदानीं प्रतिज्ञाविशेषद्वारेण चतुभंगिकामाह-' आहट्टु ' इत्यादि - एकः कश्विदेवम्भूतां प्रतिज्ञां गृण्हाति-ग्लानस्य साधम्भिकस्याहारादिकमन्वेपिष्ये, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि तव उपभोक्ष्ये, एवंभूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्र्यं उ० ५ परिहारवि शुद्धिकादिसाधोवँया वृश्य विषयसामाचारीप्रदर्शनमिति । ॥। २०४ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy