Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥
पासह गंथेहिं गढिया नरा विसन्ना कामकता तम्हा लहाओ नो परिवित्तसिजा जस्सिमे आरंमा सव्वओ सव्वप्पयाए सुपरित्राणा M उ०५ भवंति जेसिमे लसिणो नो परिवित्तसंति, से वंता कोहं च माणं च माधं च लोभं च एस तुझे वियाहिए त्ति बेमि"
धर्मकथायां 'अणुवीइ' इत्यादि-स साधुरनुविचिन्त्य पूर्वापरेण धर्म पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाच- स्वपराक्षाणः नैवात्मानमाशातयेत् । नैव परात्मानमप्याशातयेत् । आशातना-आवाधा। 'नो अन्नाई 'ति-नैर अन्यान् वा शातना . . सामान्येन प्राणिनो भूतान् जीवान् सचान् नो आशातयेत् । तदेवं स मुनिः स्वतोऽनाशातनकः परैरनाशातयेत् । तथा वर्जनीया। परान् आशातयतोऽननुमन्यमानोऽपरेषां वाध्यमानानां प्राणिनां यथा पीडा नोत्पद्यते, तथा धर्म कथयेदित्यर्थः । तद्यथालौकिककुप्रावचनिकपार्श्वस्थादि दानानि प्रशंसति अवटतडागादीनि वा, ततः पृथिवीकायादयो गापादिताः स्युः। अथ पयति, ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात् । उक्तं च-जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे उणं पडिसेहंति विचिच्छेयं करंति ते ॥१॥ तस्मादवटतटाकादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् , असावद्यानुष्ठानं वा । इत्येवं कुर्वन् उभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवति । एतद् दृष्टान्तद्वारेण दर्शयति-'जहा से दीवे 'ति-यथाऽसौ द्वीपोऽसंदीनः शरणं भवति, एवमसावपि महामुनिः। तद्रक्षणीयोपायोपदेशदानत: 'वध्यमानानां '-वधकानां व्यवसायनिवर्चनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, यथोक्तप्रकारेण धर्मकथां कथयन् कांचन प्रात्राजयति । कांश्चन श्रावकान् विधत्ते । काश्चन सम्यग्दर्शनयुजः करोति । केषांचित्प्रकृतिभद्रकतामापादयति । किं गुणश्चासौ शरण्यो भवति', इत्याह-' एवं से उहिए 'ति एवममुना प्रकारेण उत्थितः सम्यक् संयमानुष्ठानादौ स्थितो ॥१८३ ।
CAREE

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244