Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हत्थकम्म 1175 - अभिधानराजेन्द्रः - भाग 7 हत्थकम्म 'जीवो त्ति-विभक्तिव्यत्ययात्यो जीवस्य हस्तः कर्मसंयुक्त-आदाननिक्षेपादिक्रियायुक्तः स नोआगमतो भावहस्त उच्यते / द्वितीयोऽपि चात्रादेशः समस्ति, यस्तस्य विज्ञायकस्तदुपयुक्तः पुरुषः सोऽपि भावहस्तः; आगमत इत्यर्थः। अत्र नोआगमतो भावहस्तेनेहाधिकारः / (बृ०)(कर्मपदव्याख्या कम्म' शब्दे तृतीयभागे 244 पृष्ठे गता।) एषां मध्ये अत्र कतमेनाधिकारः, इति चेदत आह-अधिकारोऽत्र भावकर्मणो मोहोदयलक्षणेन शेषास्तु शिष्यमति-व्युत्पादनार्थ प्ररूपिताः ततो भावहस्तेन यत्कर्म क्रियते तत् हस्तकर्म भण्यते इति प्रक्रमः। अथभावकर्मव व्याचिख्यासुराहदुविहं च भावकम्मं, असंकिलिडं च संकिलिहुंच। थप्पं तु संकिलिहूं, असंकिसिटुं तु वोच्छामि // 1222 / / द्विविधं च भावकर्म, तद्यथा-असंक्लिष्टं च, संक्लिष्टं च / चशब्दौ स्वागतानेकभेदसूचकौ, तत्र संक्लिष्ट स्थाप्यं-पश्चाद्वक्ष्यते। असंक्लिष्ट तु साम्प्रतमेत वक्ष्यामि। यथा प्रतिज्ञातमेव प्रमाणयतिछेदणे भेदणे चेव, घंसणे पीसणे तहा। अहिधाते सिणेहे य, काये खारे त्ति या वरे।। 1223 / / छेदनं भेदनं चैव घर्षणं पेषणं तथा अभिघातः स्नेहश्च काये क्षार इतिवा परः। एवमसंक्लिष्टस्य कर्मणोऽष्टौ भेदाः भवन्ति। एतानि च छेदनादीनि शुषिरे या कुर्यात्, अशुषिरे वा। पुनरेकैकं शुषिरादिछेदनं द्विधा कथमिति चेत् दुच्यतेएकेक तं दुविहं, अणंतरं परंपरं ण णायव्वं / अट्ठाणट्ठा य पुणो, होति अणहाएँ मासलहुं / 1224 / यत् शुषिरस्य अशुषिरस्य वा छेदनं तदेकैकं द्विविधम् अनन्तरं, परंपरं च ज्ञातव्यम् / पुनरेकैकं द्विधा-अर्थाद्, अनर्थाच; सार्थकं निरर्थक चेत्यर्थः / अनर्थकं छेदनादिकं कुर्वता मासलघुअसमाचारीनिष्पन्नमिति भावः। कथं पुनःछेदनमनन्तरं परंपरं वा संभवतीत्याहनहदंतादि अणंतर, पिप्पलमादी परंपरे आणा। छप्पइमादि असंजमे, छेदे परितावणादीया / / 1225 / / नखैर्दन्तरादिग्रहणात्-पादेन वा यच्छिद्यते तदनन्तरछेदनमुच्यते, पिप्पलकेन, आदिग्रहणात्-पाइल्लकछुरिकाकुठारादिभिर्यच्छिद्यते तत् परंपरछेदनम्, परस्परं वा छिन्दता तीर्थकरवणधराणामाज्ञा न कृता भवति। तं छिन्दन्त दृष्टा अन्येऽपि छिन्दन्ति इत्यनवस्था, एते तिष्ठन्तः छेदनादिकं सिहरं कुर्वन्ति न स्वाध्यायम, एवं शय्यातरादौ चिन्तयति मिथ्यात्वम्। विराधना द्विविधा-संयमे, आत्मनि च। तत्र वस्त्राद्वौ छिद्यमानेषट्पदिकादयो यद्विनाशमश्नुवते सोऽसंयमः; संयमविराधनेत्यर्थः, अथ छेदनं कुर्वतो हस्तस्य वा पादस्य वा छेदो भवति तत आत्मविराधना। तत्र च परितापमहादुःखादिनिष्पन्नं पाराश्चिकान्तं प्रायश्चित्तम्। अथ शुद्धं शुद्धेन प्रायश्चित्तमाहझुसिरमझुसिरे लहुगा, लहुगा गुरुगो य होति गुरुगा य। संघट्टणपरितावण, लहुगुराग तिवायणे मूलं / / 1226 // अशुषिरमनन्तरं छिनत्ति मासलघु, शुषिरमनस्तरं छिनत्ति चतुर्लघुकम्। अशुषिरं परं परं छिन्दतो गुरुको मासः, शुषिरं परंपर छिदन्तश्चतुर्गुरुका भवन्ति, शुषिरे बहुतरदोषत्वात् गुरुतरं परंपरे शत्रुग्रहणे संक्लिष्टतरं चित्तमिति कृत्वा गुरुतमं प्रायश्चित्तम् / एवं शुद्धपदेवष्वप्कायविराधनाभावे मन्तव्यम्, अशुद्धपदे पुनरिदमपरं प्रायश्चित्तम्-''संघट्टणमि'' त्यादि, छेदनादिकंकुर्वन् द्वीन्द्रियान् संघट्टयति चतुर्लघु, परितापयति चतुर्गुरु, उपद्रावयतिषड्लघुत्रीन्द्रियान् संघट्टयति चतुर्गुरु, परितापयति षलघु, उपद्राषयतिषगुरु, चतुरिन्द्रियान् संघट्टयति षड्लघु, परितापयतिषड्गुरु,उपद्रावयति छेदः, पञ्चेन्द्रियान्संघट्टयतिषड्गुरु, परितापयति छेदः, पञ्चेन्द्रियमतिपातयति मूलम्। एवमिन्द्रियानुलोम्येन सविस्तरं यथा पीठिकायामुक्तं तथैवात्राऽपि मन्तव्यम्। अथ द्वितीयोऽयमादेशःअझुसिरणंतर लहुओ, गुरुगो अपरंपरे अझुसिरम्मि। झुसिराण चरें लहुगा, गुरुगा तु परंपरे अहवा / / 1227 / / अशुषिरे अनन्तरे लघुको मासः, अशुषिरे परंपरे गुरुको मासः, शुषिरे अनन्तरे चतुर्लघु, शुषिरे परंपरे चतुर्गुरवः / अथ वेति प्रायश्चित्तस्य प्रकारान्तरद्योतकः एवं तावच्छेदनपरंपरं व्याख्यातम्। अथ भेदनादीनि व्याख्यातुकाम इदमाहएमेव सेसएसु वि, करपादादी अणंतरं होइ। जंतु परंपरकरणं, तस्स विहाणं इमं होति // 1228 // एवमेव छेदनवत् शेषेष्वपि भेदनादिषु च वक्तव्यं नवरं करपादाभ्यामादिशब्दात्-जानुकूर्परादिभिः शरीरावयवैः क्रियमाणाभ्यां भेदनादिकमनन्तरं भवति, यत् भेदनदिः परंपराकरण तस्य विधानमिदं भवति। तद्यथाकुवणयमादी भेदो, घंसणमणिगादियाण कट्ठादी। पट्टगवरादिपीसण-गोप्फणधणुनादि अभिवातो। 1226 / कुवणयो-लगुडस्तेन आदिशब्दादुपललेष्टुकादिभिर्वा घटादिभेदः भेदनं; द्विधा त्रिधा छिद्रपातनमित्यर्थः, एतत्परंपराभेदनमुच्यते / एवं घर्षणं मणिकादीनां मन्तव्यं, यथा मणिकारा लुगडवेधान् कृत्वा मणिकान् घर्षयन्ति, आदिशब्दात्प्रवालादिपरिग्रहः, 'कट्ठाइ ति चन्दनकाष्ठफलकादिकं वा यत् घर्षति तद्वा घर्षणम्, 'पट्टग' त्ति, गन्धपट्टकस्तत्र वराः प्रधानाः ये गन्धास्तदादीनां पेषणं मन्तव्यम्। गोफणा चर्मदवरकमयी प्रसिद्धा तया, धनुःप्रभृतिभिर्वा लेष्टुकमुपलं वा यत्प्रक्षिपति एषोऽभिघात उच्यते (अभिघातव्याख्या अभिधाय' शब्दे प्रथमभागे 714 पृष्ठे गता।) ततः शस्त्रेण परंपराकरणभूतेन पत्रछेद्यादिषु निवर्तयति। क्षारो लवणं तमशुषिरे शुषिरे वा कलिञ्चादिभिः प्रक्षिपति। कलिचो वंशकर्परी।

Page Navigation
1 ... 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276