Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिएस 1185 - अभिधानराजेन्द्रः - भाग 7 हरिएस जातिमदो-जातिदप्पो यदुत ब्राह्मणा वयमिति तेन प्रतिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा ये ते तथा, हिंसका:-प्राण्युपमईकारिणः अजितेन्द्रियाः-न वशीकृतस्पर्शनाद-योऽत एवाब्रह्म-मैथुनंतचरितुम्आसेवितुं शीलं धर्मों वा येषां तेऽमी अब्रह्मचारिणः, वर्ण्यते हि तन्मते मैथुनमपि "धर्मार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः / ऋतुकाले विधानेन, तत्र दोषो न विद्यते // 1 // ' तथा 'अपुत्रस्य गतिनास्ति' इत्यादि, अत एव बाला इव बालक्रीडितानुकारिष्वग्निहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं कर्म, बालक्रीडेति लक्ष्यते" ईदृशास्ते किमित्याह इदंवक्ष्यमाणलक्षणं वचनं-वचः 'अब्बवि' त्ति आर्षत्वाद्वचनव्यत्ययेन अब्रुवन्-उक्तवन्तः। किं तदित्याह-'कयरे' त्ति कतरः, एकारस्तु प्राकृतत्वात्, तथा च तल्लक्षणम् 'ए होति अयारंते' इत्यादि, एवमन्यत्रापि, आगच्छति-आयाति, पठ्यते च 'को रे आगच्छइ' ति, ते ह्यन्योऽन्यमाहुः कोऽयमीदृक् 'रे' इति लघोरामन्त्रणं साक्षेपवचनेषु च दृश्यते "दित्तरूवे' त्ति दीप्तं रूपमस्येति दीप्तरूपः, दीप्तवचनं त्वतिबीभत्सोफ्लक्षणम्, अत्यन्तदाहिषु स्फोटकेषु शीतलकव्यपदेशवत्, विकृततया वा दुर्दर्शमिति दीप्तमिव दीप्तमुच्यते, कालो वर्णतो विकरालो दन्तुरतादिना भयानकः पिशाचवत् स एव विकरालकः, 'फोक्क' ति देशी पदं, ततश्च फोक्का अग्रे स्थूलोन्नता च नासाऽस्येति फोकनासः अवमानि-असाराणि लघुत्वजीर्णत्वादिना चेलानिवस्त्राण्यस्येत्यमचेलकः, पांशुना-रजसा-पिशाचवद्भूतोजातः पांशुपिशाचभूतः, गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पुनश्च पांशुभिः समविघ्वस्त इष्टः ततः सोऽपि निष्परिकर्मतयारजोदिग्धदेहतया चैवमुच्यते, 'संकरे' ति सङ्करः, स चेह प्रस्तावात्तृणभस्मगोमयाङ्गारादिमीलक उकुरुडिकेति यावत् तत्र दूष्यवस्त्र सङ्करदूष्यं, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तल्लोकैरुत्सृज्यतेततस्तत्प्रायमन्यदपि तथोक्तं, यदा-उज्झितधर्मकमेवासौ गृहातीत्येवमभिधानं, 'परिहरिय' ति परिहत्य, निक्षिप्येत्यर्थः, क्व?कण्ठे-गले, सह्यनिक्षिप्तोपकरण इति स्वमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैकपार्श्वः कण्ठशब्द इति कण्ठे परिहत्येत्युच्यत इति सूत्रद्वयार्थः। इत्थं दूरादागच्छन्नुक्तः,सन्निकृष्टं चैनं किमूचुरित्याहकयरे तुम इय अदंसणिज्जे ? काए व आसाइहमागओऽसि? अवमचेलगापंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि ? // 7 // कतरस्त्वं, पाठान्तरश्च–को रे त्वम्, अधिक्षेपे रेशब्दः 'इती' त्येवमदर्शनीयो-द्रष्टुमनर्हः, 'कया वा' किंरूपया वा? आसा इहमागओऽसि' त्ति 'अचां सन्धिलोपीबहुल मिति वचनादेकारलोपो, मकारश्चागमिकः, तत आशया वाञ्छ्या इह-अस्मिन्यज्ञपट्टके आगतः-प्राप्तोऽसि-भवसि, अवमचेलकः पांसुपिशाचभूत इति च प्राग्वत्, पुनरनयोरुपादानमत्यन्ताधिक्षेपदर्शनार्थं , गच्छ प्रव्रज, प्रक्रमादितो यज्ञवाटकात्, 'खलाहि' त्ति देशीपदमपसरेत्यस्यार्थे वर्त्तते, तातेऽयमर्थः-अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ? नैवेह त्वया स्थातव्यमिति भाव इति सूत्रार्थः। एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह जक्खो तहिं तिंदुयरुक्खवासी, ऽणुकंपओ तस्स महामुणिस्स। पच्छायइत्ता नियगं सरीरं, इमाईवयणाई उदाहरित्था // 8 // यक्षो-व्यन्तरविशेषः तस्मिन् अवसर इति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, तथा च सम्प्रदायः-"तस्स तिंदुगवणस्स मज्झे महतो तिंदुगरुक्खो, तहिं सो वसतितस्सेव हेट्ठा चेइयं, जत्थ सो साहू चिट्ठति। ''अणुकंपओ' त्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते-चेष्टत इत्यनुकम्पक:-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह-तस्य-हरिकेशबलस्य महामुनेः-प्रशस्यतपस्विनः प्रच्छाद्य-प्रकर्षणावृत्त्य निजकम्आत्मीयं शरीरं, कोऽभिप्रायः? तपस्विशरीर एवाविश्य स्वयमनुपलक्ष्यः सन्निमानि वक्ष्यमाणानि-वचनानि वचांसि 'उदाहरित्थ' ति उदाहार्षीदुदाहृतवानित्यर्थः, इति सूत्रार्थः। कानि पुनस्तानि ? इत्याहसमणो अहं संजओ बंभयारी, बिरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओ मि // 6 // वियरिसइ खजइ मुजई य, अन्नं पभूयं भवयाणमेयं / जाणाहि मे जायणजीविणु त्ति, सेसावसेसं लहओ तवस्सी॥१०॥ श्रमणो-मुनिः 'अह' मित्यात्मनिर्देशः, किमभिधानत एवेत्याशङ्कयाह-- सम्यग् यतः संयतः-असद्व्यापारेभ्य उपरतः, अत एव च ब्रह्मचारीब्रह्मचर्यवान, तथा विरतो निवृत्तः, कुतो?धनं च पचनं च परिग्रहश्य धनपचनपरिग्रहमिति समहारः तस्मात्, तत्र धनं चतुष्पदादि, पचनमाहारनिष्पादनं, परिग्रहो द्रव्यादिषु मूर्छा, अतएव च परस्मै प्रवृत्तं परैः स्वार्थ निष्पादितत्वेन परप्रवृत्तं तस्य, तुरवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थ साधितस्येति भावः, भिक्षाकालेभिक्षाप्रस्तावे, कदाचिदकालाऽयं ब्रूयादित्येवमुक्तम्, अन्नस्य अशनस्य 'अट्ठ' त्ति सूत्रत्वादयि, भोजनार्थमिति भावः, इह-अस्मिन् यज्ञवाटके आगतोऽस्मि, अनेन यदुक्तं-कतरस्त्वं किमिहागतोऽसि ? तत्प्रतिवंचनमुक्तम्, एवमुक्ते च ते कदाचिदभिदध्युः-नेह किञ्चित् कस्मैचिद्दीयते न वा देयमस्त्यत आह-वितीर्यतेदीयते दीनानाथादिभ्यः खाद्यते खण्डखाद्यादिः, भुज्यते च भक्तसूपादि, अद्यत इत्यन्नं स सर्वमपि सामान्येनोच्यते, तदप्यल्पमेव स्यादत आह-प्रभूतं-बहु, प्रभूतमपि परकीयमेव स्यात्, अत आह भवतां युष्माकमेव सम्बन्धि एतदि तिप्रत्यक्षत

Page Navigation
1 ... 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276