Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1237
________________ हिंडग 1213- अभिधानराजेन्द्रः - भाग 7 हिंडग दिष्टु क्षीरयाचनेच्छया प्रतिबध्यमानो यो न मिलेत् तस्याप्युपहन्यते उपधिः / किं कारणम् ? एकाकिन: पर्यटनं नोक्तम / एकाकी च पर्यटन प्रमादभाग् भवति अतो व्रजादिप्रतिबन्धेऽप्युपधिरुपहन्यते। यस्तु पुनर्जागर्ति तस्मिन् दिवसेऽभुक्तो न व्रजादिषु प्रतिबध्यते स एवंविधस्तस्मिन् दिवसे मिलन्नपि नोपधिमुपहन्ति। 'जइवि चिरेणं' ति किं बहुना ? जाग्रन्निशि गोकुलादिषु वाऽप्रतिबध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसैस्तथाऽप्युपधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति। इदानीं गच्छस्य गमनविधिं प्रतिपादयन्नाहपुरओ मज्झे तह म-ग्गओ य ठायंति खित्तपडिलेहा। दाइंतुचाराई, भावासणणाइरक्खट्ठा / / 177 // क्षेत्रप्रत्युपेक्षका एषु विभागेषु भवन्ति-केचन पुरत:-अग्रतो गच्छस्य, केचन मध्ये गच्छस्य, ते हि मार्गानभिज्ञा: / मार्गतश्च -पृष्ठतक्ष तिष्ठन्ति क्षेत्रप्रत्युपेक्षका: / किमर्थं पुरत एव तिष्ठन्ति ? 'दाइंतुश्चाराई' उचारप्रश्रवणस्थानानिदर्शयन्ति गच्छस्य, 'भावासण्णादिरक्ख?' ति भावासण्णो-अणहियासओ, तद्रक्षणार्थम्। एतद्रक्तं भवति-उचारादिना बाध्यमानस्य ते मार्गज्ञा: स्थण्डिलानि दर्शयन्ति। डहरे भिक्खग्गामे, अंतरगामम्मि ठावए तरुणे। उवगरणगहण असहू, व ठावए जाणगं चेगं // 178 / / 'डहरे भिक्खग्गामे ' ति यत्र ग्रामे वासकोऽभिप्रेत: भिक्षा च | अटितुमभिप्रेता तस्मिन् ‘डहरे 'क्षुल्लके ग्रामे सति किं कर्तव्यमत आह'अंतरगामम्भि' अमान्तराल एव यो ग्रामस्तस्मिन् भिक्षार्थ तरुणान् स्थापयेत्, 'उवगरणगहणं' ति तदीयमुपकरणमन्ये भिक्षवो ग्रह्णन्ति, 'असहू व ठावए ' त्ति अथतेतत्स्थापितेतरभिक्षुसत्कमुपकरणं अहीतुन शक्नुवन्ति ततोऽसहिष्णव एव तत्रान्तरग्रामे भिक्षार्थ स्थाप्यन्ते 'जाणगं चेग' तिझंचैकमार्गज्ञं चैकं तेषां मध्ये स्थापयेत् येन सुखेनैवागच्छन्ति। दुरुट्टिअ खुड्डलए,चव भड अगणीय पंत पडिणीए। संघाडेगो धुवक-म्मिओ व सुण्णे नवरि रिखा 11 176 // अथवा-असौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरे स्थित: स्याद्, उत्थितो वा-उद्घसित: क्षुल्लको वा प्राक् संपूर्णो दृष्टः इदानीमर्द्धमुद्रसितमत: क्षुल्लकः, नव:-प्राग् यस्मिन् स्थाने दृष्टस्तत: स्थानादन्यत्र प्रदेशे जात: “भड ' त्ति भटाक्रान्तो जात: 'अगणि ' त्ति अग्निनां वा इदानीं दग्ध: प्रान्त:- प्राक् शोभनो दृष्ट इदानीं प्रान्तीभूतो विरूपो जात: 'पडिणीए' त्ति प्रत्यनीकाक्रान्त इदानीं जात: प्राक् प्रतिलेखनाकाले प्रत्यनीकस्तत्र नासीत् इदानी तु आयात:, पूर्वप्रतिलेखिते ग्रामे एवंविधे जाते सति दूरोत्थितादिदोषाभिभूते सति किं कर्तव्यम् ? 'संघाड' त्ति तत्र सङ्घाटक; स्थाप्यते, पाश्चात्यप्रव्रजितमीलनार्थम् एगोवि त्ति सङ्घाट- | काभावे एक: स्थाप्यते साधु: 'धुवकम्मिओ' त्ति ध्रुवकर्मिकोलोहकारा- | दिस्तस्य कथ्यते-यथा वयमन्यत्र ग्रामेयास्यामः, त्वया पाश्चात्यसाधुभ्यः कथनीयं- यथाऽनेन मार्गेणागन्तव्यमिति, एवं तावत् वसति ग्रामे 'एस विही' / 'सुण्णे नवरि रिक्ख' त्ति यदा त्वसौ शून्यो ग्रामस्तदा किं कर्तव्यम् ? 'नवरि रिक्ख' त्ति वर्मनि-अनभिप्रेते तिरश्चीनं रेखाद्वयं पाल्यते, येन तु वर्त्मना गतास्तत्र दीर्घा रेखां कुर्वन्ति।यदातुपुनरेभिरुक्तदोषैर्युक्तौन भवति सग्रामस्तदा तत्रैव या वसतिस्तस्यां प्रविशन्ति। ततश्च येते भिक्षार्थमन्तरालग्रामे स्थिता आसन्तेषां मध्ये यदि वसतिमार्गज्ञो भवति ततस्तस्यामेव वसतौ आगच्छन्ति, न कश्चित्प्रति पालयति। एतदेवाहजाणंतठिएँ ता एउ, वसहीए नत्थि कोइ पडियरइ। अण्णाए जाणते-सुवावि संघाड धुवकम्मी।।१८०॥ 'जाणंतठिए' मार्गाभिज्ञे स्थिते तस्यां वसतावागच्छन्ति 'नत्थि कोइ पडियरइ' ति न कश्चित् तान् प्रतिपालयति बहि:-स्थित:, 'अण्णाए' त्ति यदा तस्या: पूर्वप्रत्युपेक्षिताया वसतेव्याघात: संजात: किन्त्वन्या, तस्यामन्यस्यां वसतौ जातायां 'अजाणतेसु वावि' अथवा-ये ते भिक्षानिमित्तं स्थिता: पश्चादागमिष्यन्ति तेषु अजानत्सु 'संघाडधुवकम्मि' त्ति वसतिपरिज्ञानार्थ सङ्घाटको बहिः स्थाप्यते, धुवकर्मिकोलोहकारस्तस्य कथ्यते, यदुत-साधव आगमिष्यन्ति तेषामियं वसतिदर्शनीया कथनीया वेति। इदानीं ये ते भिक्षार्थं पश्चाद्ग्रामे स्थापितास्तै: किं कर्त्तव्यमत आहजइ अन्भासे गमणं, दूरे गंतुं दुगाउयं पेसे। ते वि असंथरमाणा, इंती अहवा विसज्जंति / / 161 // यदि अभ्यासे-आसन्ने गच्छस्ततस्ते 'गमणं' त्ति गच्छसमीपमेव गच्छन्ति, 'दूरे' त्ति अथ दूरे गच्छस्ततो गन्तुं द्विगव्यूत-गत्वा क्रोशद्वयं, किम् ? 'पेसे' ति एकं श्रमणं गच्छसमीपे प्रेषयन्ति? 'तेवि असंथरमाणा इति' तेऽपि गच्छगता: साधव: असंस्तरमाणा:-अतृप्ताः सन्त: किं कुर्वन्ति ? 'एंति' आगच्छन्ति, क?- यत्र ते साधवो भिक्षया गृहीतया तिष्ठन्ति, अथ चतृप्तास्ततस्तंसाधुं विसर्जयन्ति यदुत-पर्याप्तमस्माकं, यूयं भक्षयित्वाऽनगच्छत। 'संगारे' त्ति दारं, व्याख्यातं, तत्प्रसङ्गाकायातं च व्याख्यातम्। इदानीं वसतिद्वारमुच्यते, तत्प्रतिपादनायेदमाहपठमवियाए गमणं, गहणं पडिलेहणा पवेसो उ। काले संघाडेगो, वसंथरंताण तह चेव / / 152 // 'पढम' त्ति तस्यां च वसतौ गमनं-प्राप्ति: कदाचित्प्रथमपौरुष्यां भवति, कदाचिच्च ‘बितियाए' त्ति द्वितीयपौरुष्यां गमनं: प्राप्तिरित्यर्थः। 'गहणं' ति दंडउंछयणदोरयचिलिमिलीणं कृत्वा ग्रहणं वृषभाः प्रविशन्ति। पुनश्च 'पडिलेहणा' तावसतिप्रमार्जयन्ति पसो' तिततोगच्छ:प्रविशति काले' त्तिकदाचिदिक्षाकाल एव प्राप्तास्ततश्चंको विधि:? अत आह-सनाटकएको वसति प्रमार्जयति अन्ये मिक्षार्थ व्रजन्ति। 'एगोव' ति यदा सङ्घाटको न पर्याप्यते तदा एको गीतार्थो वसति प्रत्युपेक्षणार्थ प्रेष्यते, यदा तु पुनरेको

Loading...

Page Navigation
1 ... 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276