Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हिंसा 1226 - अभिधानराजेन्द्रः - भाग 7 हिंसा णत्वात्। न द्वितीय:-परचेतोवृत्तीनां दुर्लक्ष्यातयाऽऽर्तध्यानाऽभावस्य वाड्.मात्रत्वात्, प्रत्युत हा / कष्टमस्ति-न कोऽपि कारुणिक: शरणम् ? इति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलताऽऽदीनां लिङ्गाना दर्शनाद् दुर्ध्यानस्य स्पष्टमेव निष्टड्क्य मानत्वात्। अथेत्थमाचक्षीथा:-यथा अय:पिण्डो गुरुतया मज्जनाऽऽत्मकोऽपि तनुतरपत्राsऽदिकरणेन संस्कृत: सन् जलोपरिप्लवते, यथा च मारणाऽऽत्मकमपि विषं मन्त्राऽऽदिसंस्कारविशिष्टं सद् गुणाय जायते, यथा वा दहनस्वाभावोऽप्यग्नि: सत्यादिप्रभावप्रतिहतशक्तिः सन्नही दहति / एवं मन्त्राऽsदिविधिसंस्काराद् न खलु वेदविहिता हिंसा दोषपोषाय / न च तस्याः कुत्सितत्वं शड्कनीयम्, तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनादिति। तदेतद् न दक्षाणां क्षमते क्षोदम्, वैषम्येण दृष्टान्तानामसा धकतमत्वात् / अय: पिण्डादयो हि पत्राऽदिभावान्तराऽऽपन्नः सवन्त: सलिलतरणादिक्रियासमर्थोः, न च वैदिकमन्त्रसंस्कारविधिनाऽपि विशस्यमानानां पशूनां काचिद् वेदनाऽनुत्पादार्दिरूपा भावान्तराऽऽपत्ति: प्रतीयते। अथ तेषां वधाऽनन्तरं देवत्वाऽऽपत्तिर्भावान्तरमस्त्येवेति चेकिमत्र प्रमाणम् ? न तावत् प्रत्यक्षम्-तस्य संबद्धवर्तमानार्थग्राहकत्यात्- “सम्बद्धं वर्तमान च गृह्यते चक्षुरादिना" इति वचनात्। नोप्यनुमानम्-तत्प्रतिबद्धलिङ्गानुपलब्धेः / नाप्यागमः-तस्याद्यापि विवादाऽऽस्पदत्वात्। अर्थापत्त्युपमानयोस्त्वनुमानान्तर्गततया तदूषणेनैव गतार्थत्वात्। अथ भवतामपि जिनाऽऽयतनाऽऽदिविधाने परिणामविशेषात् पृथिव्यादिजन्तुजातघातनमपि यथा पुण्याय कल्प्यते इति कल्पना, तथा अस्माकमपि किं नेष्यते? वेदोक्तविधिविधरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि भावात्। नैवम्, परिणामविशेषोऽपि स एव शुभफलो, यत्राऽनन्यान्योपायत्वेन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि स्वल्पपुण्यव्ययेनाऽपरिमितसुकृतसंप्राप्ति:, न पुनरित रः। भवत्पक्षे तु सत्स्वपि तत्तछुतिस्मृतिपुराणेतिहासप्रतिपादिषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रतिप्रतीकं प्रत्यवयकम् कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेन्द्रियान् शौनिकाधिकं मारयतां कृत्स्नसुकृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभ: शुभपरिणामविशेष:, एवं चयंकञ्चन पदार्थ किश्चित्साधर्म्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः, सङ्गच्छते / न च जिनाऽऽयतनविधापनादौ पृथिव्यादिजीवबधेऽपि न गुणः / तथाहि-तद्दर्शनाद् गुणाऽनु रागितया भव्यानां बोधिलाभ:, पूजाऽतिशय-विलोकनाऽऽदिना च मन: प्रसाद:, तत: समाधिः, ततश्च क्रमेण निःश्रे यसप्राप्तिरिति / तथा च | भगवान् पञ्चलिङ्गीकार:"पुढवाइयाण जइ वि हु, होइ विणासो जिणालयाहिन्तो। तविसया विसुदिट्ठि-स्स णियमओ अत्थि अणुकंपा // 1 // एयाहिंतो बुद्धा, बिरया रक्खन्ति जेण पुढवाई। इत्तो निव्वाणगया, अवाहिया आभवमिमाणं // 2 // रोगिसिरावेहो इव, सुविज्जकिरिया व सुप्पउत्ताओ। परिणामसुंदरचिय, चिट्ठा से बाहजोगे वि // 3 // " इति। वैदिकबधविधाने तु न कश्चित्पुण्यार्जनानुगुणं पश्यामः // अथ विप्रेभ्यः पुरोडाशाऽऽदिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येव इति चेत्, न, पवित्रसुवर्णाऽऽदिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कृपणपशुगणप्यपरोपणसमुत्थमांसदानं केवलं निपुणत्वमेव व्यनक्ति। अथ न प्रदानमात्रं पशुवधक्रियाया: फलं किन्तु भूत्यादिकम्, यदाह श्रुति:-"श्वेतं वायव्यमजमालभेत् भूतिकामः" इत्यादि। एतदपिव्याभिचारपिशाचग्रस्तत्वादप्रमाणमेव, भूतेश्चौपयिकान्तरैरपिसाध्यमानत्वात्। अथ तत्र सत्रे हन्यमानानां छागादीनां प्रेत्य सद्गतिप्रारूपोऽस्त्येवोपकार इति चेत्; वाड्.मात्रमेतत्, प्रमाणाऽभावात्, नहि ते निहता: पशव: सद्गतिलाभमुदितसनस: कस्मैचिदागत्य तथाभूतमात्मानं कथयन्ति। अथास्त्यागमाऽऽख्यं प्रमाणम्। यथा “औषध्य: पशवो वृक्षा-स्तिर्यश्च: पक्षिणस्तथा। यज्ञार्थं निधनं प्राप्ताः, प्राप्नुवन्त्युचिछूतं पुनः" // 1 // इत्यादि। नैवम्, तस्य पौरुषेयाऽपौरुषेयविकल्पाभ्यां निराकरिष्यमाणत्वात्। नच श्रौतेन विधिना पशुविशसनविधायिनां स्वर्गावाप्तिरुपकार इति वाच्यम्, यदि हि हिंसयाऽपि स्वर्गप्राप्ति: स्यात्, तर्हि वाढं पिहिता नरकपुरप्रतोल्य:, शौनिकादीनामपि स्वर्गप्राप्ति प्रसङ्गात् / तथा च पढ़न्ति पारमर्षा:- “यूपं छित्त्वा पशून्हत्वा' कृत्वा रुधिरकर्दमम् / यद्येवं गम्यते स्वर्गे नरके केन गम्यते?" किञ्च-अपरिचिताऽस्पष्टचैतन्याऽनुपकारिपशुहिंसनेनापि यदि त्रिदिवपदवीप्राप्ति:, तदा परिचितस्पष्टचैतन्यपरमोपरिमातापित्रादिव्यापादनेन यज्ञकारिणामधिकत रपदप्राप्तिः प्रसज्यते। अथ अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव: इति वचनाद् वैदिकमन्त्राणामचिन्त्य-प्रभावत्वात् तत्संस्कृतपशुबधे संभवत्येव स्वर्गप्राप्तिः, इति चेत्। न, इह लोके विवाहगर्भाऽऽधानजातकर्माऽऽदिषु तन्मन्त्राणां व्यभिचारोपलम्भाद, अदृष्टे स्वर्गादावपि तद्व्यभिचारोऽनुमीयते। दृश्यन्ते हि वेदोक्त मन्त्रसंस्कारविशिष्टेभ्योऽपि विवाहाऽऽदिभ्योऽनन्तरं वैधव्याऽल्पा-युष्कतादारिद्याऽऽधुपद्रवविधुरा: पर: शता:, अपरे च मन्त्रसंस्कारं विना कृतेभ्योऽपि तेभ्योऽनन्तरं तद्विपरीताः / अथ तत्र क्रियावैगुण्यं विसंवादहेतुः, इति चेत्। न, संशयाऽनिवृत्ते: / किं तत्र क्रियावैगुण्यात् फले विसंवादः, किं वा मन्त्राणामसामर्थ्याद् ? इति न निश्चयः, तेषांक लेनाविनाभावासिद्धेः / अथ यथा युष्मन्मते- "आरोग्ग बोहिलाभं समाहिवरमुत्तमं किंतु" इत्यादीनां वाक्यानां लोकान्तर एय फलमिष्यते, एवमस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किंन प्रतिपद्यते? अतश्च विवाहाऽऽदौ नोम्भावकाश:, इति चेत्। अहो। वचनवैचित्री यथा वर्तमानजन्मनि विवाहाऽऽदिषु प्रयुक्तैर्मन्त्रसंस्कारैरागामिनी जन्मनितत्फलम्, एवं द्वितीयादिजन्मान्तरेष्वपि विवाहाssदीनामेवं प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारेऽनन्तभवानुसन्धान प्रसज्यते, एवं चन कदाचन संसारस्य परिसमाप्ति:, तथा च न कस्यचिदपवर्गप्राप्ति:, इति प्राप्त भवदभिमतवेदस्य पर्यवसितसंसारवल्लरीमूलकन्दत्वम् / आरोग्याऽऽदिप्रार्थना तु असत्याऽमृषाभाषापरिणामविशुद्धिकारणत्वाद् नदोषाय,तत्र हि-भावाऽऽरोग्याऽऽदिकमेव विवक्षितम्, तच्च चातुर्गतिकसंसारलक्षेण भावरोगपरिक्षयस्वरूपत्वाद्-उत्तमफलम्, तद्विषया च

Page Navigation
1 ... 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276