Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हेमवय 1248 - अभिधानराजेन्द्रः - भाग 7 हेमवय तानि दश चएकोनविंशतिभागान् योजनस्य परिक्षेपेणेति। अथ कीदृशमस्य स्वरूपमित्याह- 'हेमवयस्स' ण मित्यादि, व्याख्यातप्रायम्, नवरम् एव मिति-उक्तप्रकारेण तृजीयसभा-सुषमदुष्षमारकस्तस्या भाव:-स्वभावः; स्वरूपमिति यावत्नेतव्यः-स्मृतिपथं प्रापणीय इत्यर्थः / अथात्र क्षेत्रविभागकारिगिरिस्वरूपं निर्दिशतिकहिणं भंते / हेमवए वासे सद्दावा (व) ईणामं वट्टवेअद्धपव्वए पण्णते ? गोयमा! रोहियाए महाणईए पच्चत्थिमेणं रोहिअंसाए महाणईए पुरत्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सद्दावई णामं वट्टवेअद्धपव्वएपण्णते एगंजोअणसहस्सं उद्धं उच्चत्तेणं अद्धाइजाइं जोयणसयाइं उटवेहेणं सम्वत्थसमे पल्लंगसंठाणसंठिए एग जोअणसहस्सं आयामविक्खंभेणं तिण्णि ओअणसहस्साइं एगं च बावढे जोअणसयं किंचि विसेसाहिअं परिक्खेवेणं पण्णते, सव्वरयणामए अच्छे, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सवओ समंता संपरिक्खित्ते, 'वेइआवणसंडवण्णओ भाणिअय्दो / सद्दावइस्स णं वट्ठवेअङ्कपव्वयस्स उवरिं बहुसमरणिज्जे भूमिभागे पण्णते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायव.सएपण्णते, बावहिँजोअणाई अद्धजोयणं च उद्धं उच्चत्तेणं इकतीसंजोअणाईकोसंच आयामविक्खंभेणं० जाव सीहासणं सपरिवारं / से केणटेणं भंते / एवं बुच्चइ-सद्दावई वट्टवेयद्धपव्वए ? गोयमा ! सद्दावइवट्टवेअद्धपव्वएणं खुद्दाखुद्दिआसु बावीसु० जाव विलपंतिआसु बहवे उप्पलाइं पउमाई सहावइप्पभाई सद्दावतिवण्णाभाइंसद्दावई अइत्थ देवे महिद्धीए जाव महाणुभावे पलिओवमट्टिइए परिवसइ त्ति / से णं तत्थ चउण्हं सामाणिअसाहस्सीणं०जावरायहाणीमंदरस्स पव्वयस्स दाहिणेणं अण्णम्मि जम्बुद्दीवे दीवे / (सू०७७) 'कहि णं भंते !' इत्यादि, क्व भदन्त ! हैमवतवर्षे शब्दापाती नाम्ना वृत्तवैताट्यपर्वत: प्रज्ञप्त:, वैताढक्यान्वर्थस्तु प्रागुक्त:, असौ च वृत्ताकारो न भरतादिक्षेत्रवर्तिवैतान्यपर्वतवत् पूर्वापरायतस्तेन वृत्तवैताढ्य इत्युच्यते, अत एवं एतत्कृत: क्षेत्रविभाग: पूर्वतोऽपरतश्च भवति, यथापूर्वहैमवतमपरहैमवतमिति। आह-पञ्चकलाधिकैकविंशति-शतयोजनप्रमाणविस्तास्य हैमवतस्य मध्यवर्ती योजनसहस्रमान एष गिरिः कथं क्षेत्रं द्विधा विभजति? उच्यते-प्रस्तुतक्षेत्रव्यासो हि उभयो: पार्श्वयोः, रोहितारोहितांशाभ्यां नदीभ्यां रुद्धः मध्यतस्त्वनेन / अथ नदीरुद्धक्षेत्रं वर्जयित्वाऽवशिष्ट क्षेत्रमसौ द्विधा करोतीत्यस्मिन्नन्वर्थवती वैताळ्यशब्दप्रवृत्तिरिति एवं शेषेष्वपि वृत्तवैताढ्येषु स्वस्वक्षेत्रनदीनामभिलापेन भाव्यम, दिग्विभागनियमनं सुलभमिति नव्याख्यायते। एक योजनसह स्रमूर्वोचत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन सर्वत्र सम:-तुल्योऽधोमध्योर्ध्वदेशेषु सहस्रसहस्रविस्तारकत्वात्, अत एव पल्यड्क-' संस्थानसंस्थितः / पल्यड्कश्चलाटदेशप्रसिद्धो वंशदलेन निर्मापितो धान्याधारकोष्ठक:, एकं योजनसहस्रमायामविष्कम्भायां त्रीणि योजनसहस्राणि एकंच द्वाषष्ट्यधिक योजनशतं किञ्चिद्विशेषेण करणवशादागतेन सूत्रानिर्दिष्टेन राशिना अधिक परिक्षेपेण प्रज्ञप्तम्। सर्वात्मना रत्नमय:, केचन रजतमयान् वृत्तवैताढ्यानाहुः, परं तेषामनेन ग्रन्थेन सह विरुद्वत्वमिति। अथात्र पद्मवरवेदिकाद्याह- 'सेण' मित्यादि, व्यक्तम्, 'सद्दावइस्सण' मित्यादि, व्यक्तम् / अथनामार्थं निरूपयन्नाह- से केणद्वेणं भंते' इत्यादि प्रागुक्तऋषभकूटप्रकरणवव्याख्येयम्, नवरम् ऋषभकूटप्रकरणे ऋषभकूटप्रभै: ऋषभकूटवगैरुत्पलादिभिर्ऋषभकूटनामनिरुक्तिशिता अत्र तु शब्दापातिप्रभैः शब्दापातिवण: उत्पलादिभिः शब्दापातिवृत्तवैताढ्यनामनिरुक्तिद्रष्टव्या, शब्दापाती चात्र देवो महद्धिको यावन्महानुभाव: पल्योपमस्थितिक: परिवसति। अथशब्दापातीदेवमेव विशिनष्टि- ‘से तेणं तत्थ' इत्यादि , स-शब्दापाती देवस्तत्रप्रस्तुतगिरौ चतुर्णां सामानिकसहस्राणायावत्पदात् विजयदेववर्णकसूत्रं सर्वमपि ज्ञेयं व्याख्येयं च। कियत्पर्यन्तमित्याह-राजधानी मन्दरस्य दक्षिणस्यामन्यस्मिन् जम्बूद्वीपे द्वीपे इति। जम्बूद्वीपप्रज्ञप्त्यादर्शषु एतत्सूत्रदृष्टोऽपि 'पलिओवमट्टिई परिवसती त्ययं सूत्रादेश: पूर्वसूत्रे यद्योतिस्तद्बहुषु' विजयदेवप्रकरणादिसूवेष्वित्थमेव दृष्टवात्। बहुग्रन्थसाम्मत्येन क्वचिदादर्शवैगुण्यमुद्भाव्यान्यथा योजनंबहुश्रुतसम्मतमेवास्ति इत्यलं विस्तरेण / ननु अस्य शब्दापातिवृत्तवैताब्यस्य क्षेत्रविचारादिग्रन्थेषु अधिप: स्वातिनामा उक्तः; तत्कथन तै: सह विरोध: ? उच्यतेनामन्तरं, मतान्तरं वा। अथ हैमवतवर्षस्य नामार्थ पृच्छतिसे केणऽद्वेणं भंते। एवं दुबइ हेमवए वासे हेमवए वासे ? गोयमा ! चुलहिमवन्तमहाहिमवन्तेहिं वासहरपव्वएहिं दुहओ समवगूढे णिचं हेमंदलइ, णिचं हेमंदलइत्ता णिचं हेमं पगासइ। हेमवए अ इत्थ देवे महिड्डीए पलिओवमट्टिइए परिवसइ, से तेणद्वेणं गोयमा ! एवं वुबइ हेमवए वासे हेमवए वासे। (सू०७८) 'सेकेणढणं' मित्यादि, अथकेतार्थेन भगवन्! एयमुच्यते-हैमवतंवर्षहैमवतं वर्षमिति ? गौतम ! क्षुद्रहिमवन्महाहिमवद्भयां वर्षधरपर्वताभ्यां द्विधातो दक्षिणोत्तरपार्श्वयो: समवगाढं-संश्लिष्टं, ततो हिमवतोरिदं हैमवतम्। अयं भाव:- क्षुद्रहिमवतो महाहिमवतश्चापान्तराले तत्, क्षेत्रम्, ततो द्वाभ्यामपि ताभ्यां यथाक्रममुभयोर्दक्षिणोत्तरपार्श्वयोः कृतसीमाकमिति भवति तयोः सम्बन्धि। यदि वानित्यं कालत्रयेऽपि हेम-सुवर्णं ददाति आसनप्रदानादिना प्रयच्छति, कोऽर्थ: ? तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगे

Page Navigation
1 ... 1270 1271 1272 1273 1274 1275 1276