Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1256
________________ हिंसा 1232- अभिधानराजेन्द्रः - भाग 7 हिंसा 'इय' एवं परिणामाद्वन्धे सति बालो वृद्ध इति स्तोकमिदमत्रहिंसाप्रक्रमे, किमिति ? बालोऽप्यसौ न तीव्र: परिणाम: कदाचिद् वृद्धेऽपि तीव्र इति जिघांसतामाशयवैचित्र्यादिति। अह परिणामाभावे, वहे वि बंधो न पायई एवं / कहं न वहे पॅरिणामो, तब्भावे कहँ य नो बंधो / / 230 // अथैवं मन्यसे परिणामाभावे सति वधेऽप्यबन्ध एव प्राप्नोत्येवं परिणामवादे एतदाक्याह-कथं न वधे परिणामः किं तर्हि भवत्येवादुष्टाशयस्य तत्राप्रवृत्ते: तद्भावे-वधमभावे कथंच वधेन बन्धो, बन्ध एवेति। सिय न वहे परिणामो, अन्नाणकुसत्थभावणाओ य। उभयत्थ तदेव तओ, किलिट्ठबंधस्स हेउत्ति।। 231 / / स्यान्न वधे परिणाम: क्लिष्ट: अज्ञानात्, अज्ञानं व्यापादयंत: कुशास्त्रभावनातच, योगादावेतदाफ्याह-उभयत्र तदेवाज्ञानमासौ परिणाम: क्लिष्टबन्धस्य हेतुरिति साम्परायिकस्येति। जम्हा सो परिणामो, अन्नाणादवगमेण नो होइ। तम्हा तयभावत्थी, नागाईसुं सइ जइज्जा / / 232 / / यस्मादसौ वधपरिणामः अज्ञानाद्यपगमेन हेतुना न भवति सति त्वज्ञानादौ भवत्येव, वस्तुतस्तस्यैव तद्रूपत्वात्, तस्मात्तदभावार्थीवधपरिणामाभावार्थी ज्ञानादिषु सदा यतेत तत्प्रतिपक्षत्वात् इति।। एवं वस्तुस्थितिमभिधायाधुना परोपन्यस्तहेतोरनैकान्तिकत्वमुद्भा- | वयतिबहुतरकम्मोवक्कम-भावो वेगंतिओ न जं केइ। बाला विय थोवाऊ, हवंति वृड्डा विदीहाऊ / / 233 / / बहुतरकर्मोपक्रमभावोऽपि बालादिवृद्धादिष्चकान्तिको न, यद्यस्मात्केचन बाला अपि स्तोकायुषो भवन्ति, वृद्धा अपि दीर्घायुषस्तथा लोके दर्शनादिति। तम्हा सव्वेसिं चिय, वहम्मिपावं अपावभावेडिं। भणियमहिगाइभावो, परिणामविसेसओ पायं / / 234 / यस्मादेवं तस्मात्सर्वेषामेव बालादीनां बधे पापमपापभावैर्वीतरागैर्भणितम् अधिकादिभावस्तस्य पाप्मन: परिणामविशेषत: प्रायो भणित इति वर्तते। प्रायोग्रहणं तपस्वीत रादिभेदसंग्रहार्थमिति। साम्प्रतमन्यद्वादशस्थानकम्संभवइ वहो जेसि, जुञ्जइ तेसिं निवित्तकरणं पि। आवडियाकरणम्मिय, सत्तिनिरोहा फलं तत्थ / / 235 // संभवति वधो येषु कृमिपिपीलिकादिषु युज्यते तेषु निवृत्तिकरणमपि विषयाप्रवृत्तेः, आपतिताकरणे च पर्युपस्थितानासेवने च सति शक्तिनिरोधात्फलं तत्र युज्यत इति वर्तते। अविषयशक्त्यभावयोस्तु कुत: फलमिति। तथा चाहनो अविसए पवित्ती, तन्निवित्तीइ अचरणपाणिस्स। झसनायधम्मतुल्लं, तत्थ फलमबहुमयं केइ / / 236 / / नो अविषये नारकादी प्रवृत्तिवर्धक्रियायास्ततश्च तन्निवृत्त्या अविषय- | प्रवृत्तिनिवृत्त्या अचरणपाणे:-छिन्नगोदुकरस्य (सर्वेषूपलब्ध-पुस्तकेषु एतादृशमेवेति नास्माकं मनीषोन्मेषोऽत्र।) झषज्ञातधर्मतुल्यं-छिन्नगोदु- . करस्य मत्स्यनाशे धर्म इत्येवं कल्पम् तत्र निवृत्तौ फलम् अबहुमतं विदुषामश्लाध्यं केचन मन्यन्त इत्येष पूर्वपक्षः / अत्रोत्तरमाह-संभवति बधो येष्वित्युक्तम्। ___ अथ कोऽयं संभव इतिकिं ताव तव्वहु च्चिय, उयाहु कालंतरेण वहणं तु / किं वा बहु त्ति किं वा, सत्ती को संभवो एत्थ // 237 // किं तावत्तद्वध एव तेषां व्यापाद्यमानानां वधस्तद्वधः क्रियारूप एव, उताहो कालान्तरेण हननं-जिघांसनमेव वा किमवध:-अव्यापादनमित्यर्थः? किंवा शक्ति; व्यापादकस्य व्यापाद्यविषया? क: सम्भवोऽत्र प्रक्रम इति सर्वेऽप्यमी पक्षा दुष्टाः। तथा चाहजइ ताव तय्वहु चिय, अलं निवित्तीइ अविसयाए उ। कालंतरवहणम्मि वि, किं तीए नियमभंगाओ॥२३८ / / यदि तावत्तद्ध एव तेषां व्यापाद्यमानवधक्रियैव संभव इति। अत्र दोषमाह-अलं निवृत्त्या न किञ्चिद्धनिवृत्यविषययेति हेतु:, निमित्तकारणहेतुषु सर्वासां प्रायो दर्शन मिति वचनात् अविषयत्वंचवधक्रियाया एव असंभवात्, संभवे च सति निवृत्त्यभ्युपगमात्, ततश्चवधक्रियानियमभावे अविषया वधनिवृत्तिरिति / कालान्तरहननैऽपि नियमत: सम्भवेऽभ्युपगम्यमाने किं तया निवृत्त्या न किञ्चिदियर्थः, कुत इत्याह-नियमभङ्गात् संभव एव सति निवृत्त्यभ्युपगमः। संभवञ्च कालान्तरहननमवेति नियमभङ्ग इति! चरमविकल्पद्वयाभिधित्सयाऽऽहअवह वि नो पमाणं, सुट्टयरं अविसओय विसओ से। सत्ती उ कजगम्मा, सइ तम्मिय किं पुणो तीए॥ 23 // अवधेऽपि न प्रमाणम्, यद्यवधः सम्भवः इत्यत्रापि प्रमाणं न ज्ञायते एतेषामस्मादवध इति। सुष्टुतरम् अतितराम् अविषयश्च, विषय: 'से' तस्या निवृत्तेः, अविषयत्वं तु तेषां वधासंभवात् अवधस्यैव संभवत्वात्। अस्मिश्च सति निवत्याभ्युपगमादिति शक्तिस्तु कार्यगम्या वधशक्तेरपि संभवो न युज्यते यतोऽसौ कार्यगम्यैवेति,न वधमन्तरेण ज्ञायते। सति च तस्मिन्वधे किं पुनस्तया निवृत्त्या तस्य संपादितत्वादेविति। संभवमधिकृत्य पक्षान्तरमाहजजाईयो अहओ, तजाईएस संभवो तस्स। तेसु सफला निवित्ती, न जुत्तमेयं पि वभिचारा // 240 / / यजातीय एव द्वतः स्यात् कृम्यादिस्तजातीयेषु सम्भवस्तस्य वधस्य, अतस्ते सफला निवृत्तिः, सविषयत्वादिति एतदाशइक्याह नयुक्तमेतदपि व्यभिचारात्। व्यभिचारमेवाहवावाइज्जइ कोई, हए वि मणुयम्मि अन्नमणुएणं। १.सर्वेषूपलब्धपुस्तेषु एतादृशमेवेति पास्माकं मनीषोन्मेषोऽत्र /

Loading...

Page Navigation
1 ... 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276